SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥२४७॥ 85% 25-%A5 कल्पशरीराः-पटुशरीरा अन्यतराणि-अनशनादीनां मध्ये एकतराणि उदाराणि-आशंसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात् प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वात् महानुभागानि अचिन्त्यशक्तियुक्तत्वात् (समृद्धाने) ऋद्धिविशेषकारणत्वात् कर्मक्षयकारणानि मोक्षसाधकत्वात् तपःकर्माणितपः-क्रियाःप्रतिपद्यन्ते-आश्रयन्ति, 'किमंग पुण'त्ति किं प्रश्ने अङ्गत्यात्मामन्त्रणेऽलङ्कारे वा 'पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो-ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी तां वेदनां-दुःखं सहामि तदुत्पत्तावभिमुखतया, अस्ति च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते, तस्मान्न भज्यत इति भावः, क्षमे आत्मनि परे वाऽविकोपतया तितिक्षामि अदैन्यतया अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः, एकार्था वैते शब्दाः, कि 'मन्ने'त्ति |मन्ये निपातो वितर्कार्थः क्रियते-भवतीत्यर्थः, 'एगंतसो'त्ति एकान्तेन सर्वथेत्यर्थ इति ॥ एते च दुःखसुखशय्यावन्तो निर्गुणसगुणाः अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनाय सूत्रद्वयं, कण्ठ्यं, नवरं 'वीयइत्ति विकृतिः-क्षीरादिका 'अव्यवशमितप्राभृत' इति प्राभृतम्-अधिकरणकारी कोप इति । अनन्तरं वाचनीयावाचनीयाः पुरुषा उक्ता इति पुरुषा धिकारात् तद्विशेषप्रतिपादनपरं चतुर्भङ्गिकाप्रतिबद्धं सूत्रप्रबन्धमाह चत्तारि पुरिसजाया पं० तं०-आतंभरे नाममेगे नो परंभरे परंभरे नाममेगे नो आतंभरे एगे आतंभरेवि परंभरेवि एगे नो आयंभरे नो परंभरे, चत्तारि पुरिसजाया पं० २०-दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गते सुग्गते ४ स्थाना० उद्देशः३ दुःखसुखशय्याः सू० ३२४ वाचनीयावाचनीया: सू० ३२५३२६ करजऊऊऊ55 ॥२४७॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy