________________
मा दुःखदाः शय्या दुःखशम्यान र कामाशंसन ३ स्नानादि प्रवचने' शासने ।
SAUSAASAASAARISH SRAIGAA **
। 'चत्तारी'त्यादि, चतस्रः-चतुःसङ्ख्या दुःखदाः शय्या दुःखशय्याः, ताश्च द्रव्यतोऽतथाविधखट्रादिरूपाः भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादिप्रार्थन ४ विशेषिताः। प्रज्ञप्ताः, 'तत्रेति तासु मध्ये 'सें' इति स कश्चित् गुरुका अथार्थो वा अयं स च वाक्योपक्षेपे 'प्रवचने' शासने दीर्घत्वञ्च प्रकटादित्वादिति शङ्कितः-एकभावविषयसंशययुक्तः काशितो-मतान्तरमपि साध्वितिबुद्धिः विचिकित्सितःफलं प्रति शङ्कावान् भेदसमापन्नो-बुद्धिद्वैधीभावापन्न एवमिदं सर्व जिनशासनोक्तमन्यथा वेति कलुषसमापन्नो-नैतदेवमिति विपर्यस्त इति, न श्रद्धते-सामान्येनैवमिदमिति नो प्रत्येति-प्रतिपद्यते प्रीतिद्वारेण नो रोचयति-अभिलापातिरेकेणासेवनाभिमुखतयेति, मनः-चित्तमुच्चावचम्-असमञ्जसं निर्गच्छति-याति करोतीत्यर्थः, ततो विनिघात-धर्मभ्रशं संसारं वा आपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन-स्वकीयेन लभ्यते लम्भनं वेति लाभः-अन्नादे रत्नादेर्वा तेन आशां करोतीत्याशयति स नूनं मे दास्यतीत्येवमिति आस्वादयति वा-लभते चेत् भुङ्क
एव स्पृहयति-वाञ्छयति प्रार्थयति-याचते अभिलषति-लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुः४ खमास्त इति द्वितीया, तृतीया कण्ठ्या, अगारवासो-गृहवासस्तमावसामि-तत्र वर्ते सम्बाधनं-शरीरस्यास्थिसुखत्वा
दिना नैपुण्येन मईनविशेषः परिमर्दनं तु-पिष्टादेर्मलनमात्रं परिशब्दस्य धात्वर्थमात्रवृत्तित्वात् गात्राभ्यङ्गः-तैलादिनानम्रक्षणं गात्रोत्क्षालनम्-अङ्गधावनमेतानि लभे न कश्चित् निषेधयतीति, शेष कण्ठ्यमिति चतुर्थी ॥ दुःखशय्याविपरीताः सुखशय्याःप्रागिवावगम्याः, नवरं-'हह'त्ति-शोकाभावेन हृष्टा इव हृष्टा अरोगा-ज्वरादिवर्जिताः बलिकाः-पाणवन्तः
dain Education International
For Personal & Private Use Only
www.jainelibrary.org