________________
श्रीस्थानागसूत्रवृत्तिः
४ स्थाना० उद्देशः३ लोकान्धकारादिः सू० ३२४
॥२४५॥
जमाणे जायतेते वोच्छिजमाणे, चउहिं ठाणेहिं लोउज्जोते सिता, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं णाणुप्पयमहिमासु अरहंताणं परिनिव्वाणमहिमासु ४, एवं देवंधगारे देवुजोते देवसन्निवाते देवुकलिताते देवकहकहते, चउहिं ठाणेहिं देविंदा माणुस्सं लोगं हव्वमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्सं
लोग हव्वमागच्छेजा, तं०-अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु (सू० ३२४) 'चउही'त्यादि व्यक्तं, किन्तु लोकेऽन्धकार-तमिस्रं द्रव्यतो भावतश्च यत्र यद् स्यात् , सम्भाव्यते ह्यहंदादिव्यवच्छेदे द्रव्यतोऽन्धकार, उत्सातरूपत्वात् तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारं द्रव्यत एव, तथास्वभावात् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुष्षमादावागमादेरभावादिति । पूर्व देवागम उक्तः, अतो देवाधिकारवन्तमादुःखशय्यासूत्रात् सूत्रप्रपञ्चमाह-चउहीं'त्यादि, सुगमश्चायं, नवरं लोकोद्योतश्चतुर्वपि स्थानेषु देवागमात् , जन्मादित्रये तु स्वरूपेणापि, एवमिति यथा लोकान्धकार तथा देवान्धकारमपि चतुर्भिः स्थानैः, देवस्थानेष्वपि ह्यहंदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् क्षणमन्धकारं भवतीति, एवं देवोद्योतोऽहतां जन्मादिष्विति, देवस-1 |न्निपातोः-देवसमवाय एवमेव देवोत्कलिका-देवलहरिः, एवमेव देवकहकहेत्ति-देवप्रमोदकलकलः, एवमेव देवेन्द्रा मनुष्यलोकमागच्छेयुः अर्हतां जन्मादिष्वेवेति यथा त्रिस्थानके प्रथमोद्देशके तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति । पूर्वमहतां जन्मादिव्यतिकरेण देवागम उक्तः, अधुना अर्हतामेव प्रवचनार्थे दुःस्थितस्य साधोः दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह
॥२४५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org