________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २४३ ॥
वा तवस्सीति वा अइदुक्कर २कारते, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि २, अहुणोववन्ने देवे देवलो - एसु जाव अणज्झोववन्ने तस्स णमेवं भवति — अत्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामि णं तेसिमंतितं पाउब्भवामि पासंतु ता मे इममेतारूवं दिव्वं देविडिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमन्नागतं ३, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति — अस्थि णं मम माणुस्सए भवे मित्तेति वा, सहीति वा सुहीति वा सहाएति वा संगपति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति, जो मे पुवि चयति से संबोतव्वे, इश्वेतेहिं जाव संचातेति हव्वमागच्छित्तते ४ । ( सू० ३२३ )
'अम्मापि समाणे ' मातापितृसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वात्, भ्रातृसमानः अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति, मित्रसमानः सोपचारवचनादिना प्रीतिक्षतेः, तत्क्षतौ चापद्यप्युपेक्षकत्वादिति । समानः - साधारणः पतिरस्याः सपली, यथा सा सपल्या ईर्ष्याविशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपलीसमानोऽभिधीयत इति, 'अद्दाग'त्ति आदर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः, यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपहियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा
Jain Education International
For Personal & Private Use Only
४ स्थाना० उद्देशः ३ वीरश्राव
कदेवत्वं
सू० ३२२ देवागमा
नागमका
रणानि
सू० ३२३
॥ २४३ ॥
www.jainelibrary.org