SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ २४१ ॥ पुट्ठो सेसा उ णिष्फला एव गच्छेवि ॥ १ ॥” इति गणस्य - साधुसमुदायस्यार्थान् - प्रयोजनानि करोतीति गणार्थकर :आहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात् एवं त्रयोऽन्ये, उक्तं च – “आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ । बीओ न जाइ माणं दोन्निवि तइओ न उ चउत्थो ॥ १ ॥” इति, अथवा 'नो माणकरो' ति गच्छार्थकरोऽहमिति न माद्यतीति । अनन्तरं गणस्यार्थ उक्तः, स च सङ्ग्रहोऽत आह- 'गणसंगहकरे' त्ति गणस्याहारादिना ज्ञानादिना च सङ्ग्रहं करोतीति गणसङ्ग्रहकरः, शेषं तथैव, उक्तं च – “सो पुण गच्छस्सऽट्टो उ संगहो तत्थ संगहो दुविहो । दव्वे भावे नियमाउ होंति आहारणाणादी ॥ १ ॥ " आहारोपधिशय्याज्ञानादीनीत्यर्थः, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः, यस्तु मानान्न गच्छति सद्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति, रूपं - साधुनेपथ्यं जहाति -त्यजति कारणवशात् न धर्म- चारित्रलक्षणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्म न रूपं निह्नववत्, उभयमपि उत्पन्नजितवत्, नोभयं सुसाधुवत्, धर्मं त्यजत्येको जिनाज्ञारूपं न गणसंस्थितिं स्वगच्छकृतां मर्यादां, इह १ पृष्टः शेषौ तु निष्फलौ एवं गच्छेऽपि ॥ १ ॥ २ आहारोपधिशयनादिकैर्गच्छस्योपग्रहं करोति द्वितीयो न मानं याति तृतीयो द्वावपि न तु चतुर्थ इति ॥ १ ॥ ३ स गच्छस्यार्थः पुनः संग्रहस्तु तत्र संग्रहो द्विविधः द्रव्ये भावे नियमाद् भवन्ति आहारादयो ज्ञानादयश्च ॥ १ ॥ Jain Education International For Personal & Private Use Only ४ स्थाना० उद्देशः ३ यानयुग्य सारथिप्रभृतिचतु० सू० ३२० ॥ २४१ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy