________________
३. तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्तिसमृद्धिलक्षणतेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितः, यथा कालाभिधानः सौकरिकः, स हि सूकरैश्चरति-मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवीं गत इति अस्तमित एवेति ४, भरहेत्यादि तु उदाहरणसूत्रं भावितार्थमेवेति । ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्पु राशिष्ववतरन्तीति तान् दर्शयन्नाह-'चत्तारि जुम्में'त्यादि, जुम्मत्ति-राशिविशेषः, यो हि राशिचतुष्कापहारेण अपहियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स योजः द्विपर्यवसितो द्वापरयुग्मः एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशियुग्ममुच्यते विषमस्तु ओज इति, इयश्च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते-"द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम् ॥१॥” इति, उक्तराशीन्नारकादिषु निरूपयन्नाह-'नेरइए'त्यादि सुगम, नवरं नारकादयश्चतुर्द्धाऽपि स्युः, जन्ममरणाभ्यां हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावनिरूपयन्नाह–चत्तारि सूरे'त्यादि सूत्रद्वयं कण्ठ्यं, किन्तु शूरावीराः, क्षान्तिशूरा अर्हन्तो महावीरवत्, तपःशूरा अनगाराः दृढप्रहारिवत्, दानशूरो बैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरत्नवृष्टिपातनादिनेति, उक्तञ्च-"वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा । कोडिग्गसो हिरन्ना रयणाणि य तत्थ उवणेति ॥१॥" त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य पश्यधिकेषु त्रिषु सङ्ग्रामशतेषु
१ वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृभका देवाः कोट्यप्रशो हिरण्यरत्नानि च तत्रोपनयन्ति ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org