SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ विजयादीनि क्रमेण पूर्वादिदिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेशः- कुड्यस्थूलत्वमष्ट योजनान्युच्चमिति, उक्तं च""चउजोयणविच्छिन्ना अहेव य जोयणाणि उब्विद्धा । उभओवि कोसकोसं कुड्डा बाहलओ तेसिं ॥ १ ॥” इति, क्रोशं शाखाबाहल्यमित्यर्थः, “पलिओवमहिईया सुरगणपरिवारिया सदेवीया । एएसु दारनामा वसंति देवा महिड्डीया ॥ २ ॥” इति, 'चुल्लहिमवंतस्स'त्ति महाहिमवदपेक्षया लघोर्हिमवतः, तस्य हि प्राग्भागापरभागयोः प्रत्येकं शाखाद्वयमस्तीत्युच्यते 'चउसु विदिसासु' विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्रं त्रीणि त्रीणि योजनशतान्यवगाह्य - उल्लङ्घ्य ये शाखाविभागा वर्त्तन्ते 'एत्थ'त्ति एतेषु शाखाविभागेषु अन्तरे - मध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं - परस्परविभागस्तलधाना द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरु [च] काभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिकवैषाणि कलाङ्गूलिकद्वीपा अपि क्रमेणाग्नेयीनैऋती वायव्यास्विति, चतुर्विधा इति समुदायापेक्षया न त्वेकैकस्मिन्निति, अतः क्रमेणैते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शने मनोरमाः स्वरूपतो, नैकोरुचकादय एवेति, तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक् चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषां तावदेवायामविष्कम्भप्रमाणं यावत्सप्तमानां नवशतान्यन्तरं तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तु युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चाः, तथैरावतक्षेत्र विभाग१ योजनचतुष्कं विस्तीर्णा अष्टयोजनोद्वेधा उभयतोऽपि कोशकोशं कुड्या बाहुल्यतस्तयोः ॥ १ ॥ पल्योपमस्थितिकाः सुरगणपरिवृताः सदेवीकाः एतेषु द्वारनामानो वसन्ति देवा महर्द्धिकाः ॥ २ ॥ Jain Education International For Personal & Private Use Only %%%%%%%* www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy