SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ इति, तथा - "जत्तो वासहरगिरी तत्तो जोयणसयं समवगाढा । चत्तारि जोयणसए उच्चिद्धा सव्वरयणमया ॥ १ ॥ जतो पुण सलिलाओ तत्तो पंचसय गाउउब्बेहो । पंचेव जोयणसए उब्विद्धा आसखंघणिभा ॥ २ ॥” इति, विष्कम्भश्चैषामेवम् — “विजयोणं विक्खंभो बावीससयाई तेरसहियाई । पंचसए वक्खारा पणुवीससयं च सलिलाओ ॥ १ ॥” इति ॥ पद्यते - गम्यते इति पदं - सङ्ख्यास्थानं तच्चानेकधेति जघन्यं - सर्व्वहीनं पदं जघन्यपदं तत्र विचार्ये सत्यवश्यंभावेन चत्वारोऽर्हदादय इति ॥ भूम्यां भद्रशालवनं मेखलायुगले च नन्दन सौमनसे शिखरे पण्डकवन मिति, अत्र गाथा: - " बावीससहस्साई पुव्वावरमेरुभद्दसालवणं । अड्डाइज्जसया उण दाहिणपासे य उत्तरओ ॥ १ ॥ पंचेव जोयणसए उडुं गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं परिक्खिवित्ता ठियं रम्मं ॥ २ ॥ वासट्ठि सहस्साई पंचैव सयाई नंदणवणाओ । उड्डुं गंतूण वणं सोमणसं नंदणसरिच्छं ॥ ३ ॥ सोमणसाओ तीसं छच्च सहस्से विलग्गिऊण गिरिं । विमलजलकुंडगहणं हवइ वणं पंडगं सिहरे ॥ ४ ॥ चत्तारि जोयणसया चरणग्या चक्कवालओ रुंदं । इगतीस जोयणसया बावट्ठी परिरओ तस्स ॥ ५ ॥” इति, तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिलाः चूलिकायाः पूर्वदक्षिणा १ यतो वर्षधरगिरिस्ततो योजनशतं समवगाढाः चतुर्योजनशतान्युद्विद्धाः सर्वरत्नमयाः ॥ १ ॥ यतः पुनः सलिलाः ततः पंचशतगव्यूतान्युद्वेधः पंचैव योजनशतान्युद्विद्धा अश्वस्कन्धनिभाः ॥ २ ॥ २ विजयानां विष्कम्भो त्रयोदशाधिकानि द्वाविंशतिशतानि वक्षस्काराणां पंचशतानि सलिलानां पंचविंशत्यधिकं शतं ॥ १ ॥ ३ मेरोः पूर्वापरयोर्द्वाविंशतिः सहस्राणि भद्रशालवनं दक्षिणोत्तरपार्श्वयोरर्द्धतृतीयशतानि पुनः ॥ १ ॥ पंचैव योजनशतान्यूर्ध्वं गत्वा पंचयोजनशतपृथुलं नंदनं सुमेरुं परिक्षिप्य स्थितं रम्यं ॥ २ ॥ नन्दनवनादूर्ध्वे द्वाषष्टिशतिः सहस्राणि पंचैव शतानि गत्वा नन्दनवन सदृशं सौमनसं वनं ॥ ३ ॥ सौमनसात्षट्त्रिंशत्सहस्राणि गत्वा गिरौ विमलजलकुंडगहनं पाण्डकं वनं भवति शिखरे ॥ ४ ॥ चतुर्नवत्यधिकचतुःशतानि चक्रवालतया विस्तीर्ण द्विषष्ट्यधिकैकत्रिंशच्छतानि तस्य परियः ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy