SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ दित्वाच्च जातशब्दस्योत्तरपदत्वमिति, अथवा पर्यवान् पर्यवेषु वा यातः-प्राप्तः पर्यवयातोऽथवा पर्यवः-परिरक्षा परिज्ञानं Mवा शेषं तथैवेति ॥ धर्माधर्मप्रतिमे च योगत्रयाद्भवत इति तत्स्वरूपमाह | 'एगे मणे इत्यादि सूत्रत्रयं, तत्र मन इति मनोयोगः, तच्च यस्मिन् २ समये विचार्यते तस्मिन् २ 'समये' कालवि|शेष एकमेव, वीप्सानिर्देशेन न वचनापि समये तद् व्यादिसंख्यं सम्भवतीत्याह, एकत्वं च तस्यैकोपयोगत्वात् जीवानां, स्यादेतत्-नैकोपयोगी जीवो, युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरुषद्वयवत्, अत्रोच्यते, यदिदं शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह च-"समयातिसुहुमयाओ मन्नसि जुगवं च भिन्नकालंपि । उप्पलदलसयवेहं व जह व तमलायचक्कंति ॥ १॥" यदि पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदा किमन्यत्रगतचेताः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति, आह च-"अन्नविणि उत्तमन्नं विणिओगं लहइ जइ मणो तेणं । हत्यिपि ठियं पुरओ किमन्नचित्तो न लक्खेइ ? ॥१॥"त्ति इह च बहुवक्तव्यमस्ति तत् स्थानान्तरादवसेयमिति, अथवा सत्यासत्योभयस्वभावानुभयरूपाणां चतुर्णा मनोयोगानामन्यतर एव भवत्येकदा, यादीनां विरोधेनासम्भवादिति, केषामित्याह-'देवासुरमणुयाणं'ति तत्र दीव्यन्ति इति देवाः-वैमानिकज्योतिष्कास्ते च न सुरा असुराः-भवनपतिव्यन्तरास्ते च मनो १ समयातिसौक्ष्म्यात् मन्यसे युगपञ्च भिन्नकालमपि । उत्पलदलशतवेध इव यथा वा तदलातचक्रमिति ॥१॥ २ अन्यविनियुक्तमन्यं विनियोग लभते यदि मनस्तेन । हस्तिनमपि स्थितं पुरतः किमन्यचित्तो न लक्षयति ? ॥१॥ JainEducation international For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy