________________
श्रीस्थानागसूत्रवृत्तिः
॥२१॥
'एगहक्खे'त्ति पाठान्तरे त्वेकवाख्या-संशुद्धादिळपदेशो यस्य, न त्वसंशुद्धसंशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदे
१ स्थानाशान्तरनिमित्तस्य कषायादेरभावादिति स भवत्येकधाख्यः, एकधा अक्षो वा-जीवो यस्य स तथेति, जीवानां-प्राणि-3 | ध्ययने नामेकभूतः-एक एव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद्, एकत्वं चास्य बहूनामपि समस्वभावत्वादिति, अथवा
एकयोगता 'पत्ते' इत्यादि सूत्रान्तरं उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरं, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात् , किंभूतं तदित्याह-एकभूतमनन्यतया व्यवस्थितं प्राणिषु, न साङ्ख्यानामिव बाह्यमिति ॥ दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह_ 'एगा अहम्मे'त्यादि, धारयति दुर्गतौ प्रपततो जीवान् धारयति-सुगतौ वा तान् स्थापयतीति धर्मः, उक्तञ्च-"दुगतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥" स च श्रुतचारित्रलक्षणः, तत्प्रतिपक्षस्त्वधर्मस्तद्विषया प्रतिमा-प्रतिज्ञा अधर्मप्रधानं शरीरं वा अधर्मप्रतिमा, सा चैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद् , अत एवाह-जं से इत्यादि, 'यत्' यस्मात् 'से' तस्याः स्वाम्यात्मा-जीवो अथवा 'से'त्ति सोऽधर्मप्रतिमावानात्मा परिक्तिश्यते-रागादिभिर्वाध्यते संक्लिश्यत इत्यर्थः, 'जंसी'ति पाठान्तरं वा, ततश्च प्राकृतत्वेन लिङ्गव्यत्ययात् यस्यामधर्मप्रतिमायां सत्यामात्मा परिक्तिश्यते सा च एकैवेति । एतद्विपर्ययमाह-एगा ॥ धम्म'त्यादि, प्राग्वन्नवरं पर्यवाः-ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुध्यतीत्यर्थः, आहितान्या
Jain Education
a
l
For Personal & Private Use Only
Welmainelibrary.org