________________
बन्धः-सम्बन्धनं प्रदेशबन्धः, परिमितपरिमाणगुडादिमोदकबन्धवदिति, एवञ्च मोदकदृष्टान्तं वर्णयन्ति वृद्धाः-यथा किल मोदकः कणिक्कागुडघृतकटुभाण्डादिद्रव्यबद्धः सन् कोऽपि वातहरः कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि |मारकः कोऽपि बुद्धिकरः कोऽपि व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मोदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिर्भवति, एवञ्च कर्मणोऽपि तद्भावेन नियतकालावस्थानं स्थितिबन्धः, तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसो भवति, एवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभागबन्धः, तथा तस्यैव मोदकस्य यथा कणिकादिद्रव्याणां | परिमाणवत्त्वं एवं कर्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति । उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमः-कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र करणमिति रूढः, उपक्रमणं वोपक्रमो-बन्धनादीनामारम्भः, 'स्यादारम्भ उपक्रम' इति वचनादिति, तत्र बन्धनं-कर्मपुद्गलानां जीवप्रदेशानां च परस्परं सम्बन्धनं, इदं च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यं तस्योपक्रमः-उक्तार्थो बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणं बन्धनं तदेवोपक्रमो-वस्तुपरिकर्मरूपो बन्धनोपक्रमो, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्तं च-"ज करणेणोकड्डिय उदए दिजइ उदीरणा एसा । पगईठिइअणुभागप्पएसमूलुत्तरविभागा ॥१॥" तथा उदयोदीरणानिधत्तनि
१ यत्करणेनाकृष्योदये दीयत एषोदीरणा प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागाः ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org