SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 4 88445433 युर्नामगोत्रादिषु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तं च-"नेरइए णं भंते! नेरइएसु उववजइ अनेरइए नेरइएसु उववज्जइ?, गोयमा!, नेरइए नेरइएसु उववजइ नो अनेरइए नेरइएसु उववजई” इति, ततो नैरयिकस्य संसरणम्-उत्पत्तिदेशगमनमपरापरावस्थागमनं वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो -गतिचतुष्टयं, तत्र नैरयिकस्यानुभूयमानगतिलक्षणः परम्परया चतुर्गतिको वा संसारो नैरयिकसंसारः, एवमन्येऽपि ॥ उक्तरूपश्च संसार आयुषि सति भवतीति आयुःसूत्रं, तत्र एति च याति चेत्यायु:-कर्मविशेष इति, तत्र येन निरयभवे प्राणी ध्रियते तन्निरयायुरेवमन्यान्यपि, उक्तरूपं चायुर्भवे स्थिति कारयतीति भवसूत्रं, कण्ठ्यं, केवलं भवनं भवः-उत्पत्तिनिरये भवो निरयभवो मनुष्येषु मनुष्याणां वा भवो मनुष्यभवः, एवमन्यावपि । भवेषु च सर्वेष्वाहारका जीवाः इत्याहारसूत्रे, तत्राहियत इत्याहारः अश्यत इत्यशनम्-ओदनादि पीयत इति पानं-सौवीरादि खादः प्रयोजनमस्येति खादिम-फलवर्गादि स्वादः प्रयोजनमस्येति स्वादिम-ताम्बूलादि, उपस्क्रियतेऽनेनेत्युपस्करो-हिङग्वादिस्तेन सम्पन्नोयुक्त उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृत-पाक इत्यर्थस्तेन सम्पन्न ओदनमण्डकादिः उपस्कृतसम्पन्नः पाठान्तरेण नो उपस्करसम्पन्नो-हिङ्गादिभिरसंस्कृत ओदनादिः, स्वभावेन-पाकं विना सम्पन्नः-सिद्धः द्राक्षादिः स्वभावसम्पन्नः, 'परिजुसिय'त्ति पर्युषितं-रात्रिपरिवसनं तेन सम्पन्नः पर्युषितसम्पन्न इड्डुरिकादिः, यतस्ताः पर्युषितकलनीकृताः अम्ल १ नैरयिको भदन्त ! नैरयिकेपूत्पद्यते अनैरविको नैरयिषूत्पद्यते !, गौतम ! नैरयिको नैरयिकेधूत्पद्यते न अनरयिको नैरयिकेषत्पद्यते ॥ dan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy