SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ नामधेजा पं० त०-तमिति वा तमुक्कातेति वा अंधकारेति वा महंधकारेति वा। तमुक्कायस्स णं चत्तारि णामधेजा पं० २०-लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा । तमुक्कायस्स णं चत्तारि नामधेज्जा पं० २०-वातफलिहेति वा वातफलिहखोभेति वा देवरत्नेति वा देववूढेति वा । तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति तं०-सोधम्मीसाणं सणंकुमारमाहिंदं (सू० २९१) 'चउहीं'त्यादि, स्फुटं, किन्त्वालपन्-ईषत्प्रथमतया वा जल्पन् संलपन् मिथो भाषणेन नातिकामति-न लयति | निर्ग्रन्धाचार, "एगो एगिथिए सद्धिं नेव चिहे न संलवे" विशेषतः साध्व्या इत्येवंरूपं,मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति, तत्र मार्ग पृच्छन्, प्रश्नीयसाधम्मिकगृहस्थपुरुषादीनामभावे-हे आर्ये! कोऽस्माकमितो गच्छतां मार्ग इत्यादिना क्रमेण मार्ग वा तस्या देशयन्-धर्मशीले! अयं मार्गस्ते इत्यादिना क्रमेण, अशनादि वा ददद्-धर्मशीले ! गृहाणेदमशनादीत्येवं, तथा अशनादि दापयन् , आर्ये! दापयाम्येतत्तुभ्यं आगच्छेह गृहादावित्यादिविधिनेति । तथा तमस्कायं तम इत्यादिभिः शब्दः व्याहरन्नातिक्रमति भाषाचारं यथार्थत्वादिति तानाह-तमुक्काये'त्यादि सूत्रत्रयं सुगम, नवरं तमसः-अप्कायपरिणामरूपस्यान्धकारस्य कायः-प्रचयस्तमस्कायो, यो ह्यसङ्ख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं समुद्रं द्विचत्वारिंशंद्योजनसहस्राण्यवगाह्योपरितनाजलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः सप्तदशैकविंशत्यधिकानि योजनशतानि ऊर्द्धमुत्पत्य ततः तिर्यक् प्रविस्तृणन् सौधर्मादींश्चतुरो देवलोकानावृत्त्योद्धमपि १ एकाकी एकाकिन्या स्त्रिया साधैं नैव तिष्ठेत् नैव संलपेत् । dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy