SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ चास्योक्तपरिणामस्य गर्हायाः कारणत्वेन कारणे कार्योपचाराद् गसमानफलत्वाच्च द्रष्टव्यमिति, अभिधीयते हि भगवत्याम् — “निग्गंथे णं गाहावइकुलं पिंडवायपडियाए [ पिण्डलाभप्रतिज्ञयेत्यर्थः >, पविठ्ठणं अन्नयरे अकिञ्चट्ठाणे पडिसेविए, तस्स णं एवं भवइ - इहेव ताव अहं एयरस ठाणस्स आलोएमि पडिक्कमामि निंदामि जाव पडिवज्जामि, तओ पच्छा थेराणं अंतियं आलोइस्सामि० से य संपट्ठिए असंपत्ते अप्पणा य पुव्त्रमेव कालं करेज्जा से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए "त्ति, तथा 'वितिगिच्छामि'त्ति वीति- विशेषेण विविधप्रकारैर्वा चिकित्सामि - प्रतिकरोमि निराकरोमि गर्हणीयान् दोषान् इतीत्येवंविकल्पात्मिका एकाsन्या गर्हा, तत एवेति, तथा 'जंकिंचिमिच्छामीति 'त्ति यत्किञ्चनानुचितं तन्मिथ्या विपरीतं दुष्ठु मे मम इत्येवंवासनागर्भवचनरूपा एकाऽन्या गर्हा, | एवं स्वरूपत्वादेव गर्हायाः, तथा 'एवमपी'ति अनेनापि स्वदोषगर्हणप्रकारेणापि प्रज्ञप्ता-अभिहिता जिनैर्दोषशुद्धिरिति प्रतिपत्तिरेका गर्हा, एवंविधप्रतिपत्तेर्गकारणत्वादिति, एवंपि पन्नत्तेगा गरहे' ति पाठे व्याख्यानमिदम् एवंपि पन्नत्ते एगा' इति पाठे त्विदं यत्किञ्चनावद्यं तन्मिथ्येत्येवं प्रतिपत्तव्यमित्येवमपि प्रज्ञप्ते - प्ररूपिते सत्येका गर्दा भवति, | एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गर्हाकारणत्वात्, अथवा उपसंपद्ये-प्रतिषेधाम्यहमतिचारानित्येवं स्वदोषप्रतिपत्तिरेका १ निर्मन्थो गृहपतिकुलं पिण्डादानप्रतिज्ञया प्रविष्टोऽन्यतरत् अकृत्यस्थानं प्रतिषेवितं, तस्यैवं भवति - इव तावदहमेतस्य स्थानस्यालोचयामि प्रतिक्राम्यामि निन्दामि यावत्प्रतिपद्ये ततः पश्चात्स्थ विराणामन्तिके आलोचयिष्यामि, स च संप्रस्थितोऽसंप्राप्त आत्मना च पूर्वमेव कालं कुर्यात् स भदन्त ! किमाराधको विराधकः ?, गौतम ! आराधको न विराधकः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy