________________
ध्यते, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदापाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहः-अश्वयुपौर्णमासी, सुग्रीष्मःचैत्रपौर्णमासीति, इह च यत्र विषये यतो दिवसान्महामहाः प्रवर्तन्ते तत्र तद्दिवसात् स्वाध्यायो न विधीयते महसमाप्तिदिनं यावत्, तच्च पौर्णमास्येव, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्त इति, उक्तं च-"आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्यो । एए महामहा खलु सव्वेसिं जाव पाडिवया ॥१॥” इति, अकालस्वाध्याये चामी दोषाः |-"सुयणाणंमि अभत्ती लोगविरुद्धं पमत्तछलणा य । विजासाहणवेगुन्नधम्मया एव मा कुणसु ॥१॥” इति, विद्यासाधनवैगुण्यसाधम्र्येणैवेत्यर्थः, प्रथमा सन्ध्या अनुदिते सूर्ये पश्चिमा-अस्तमयसमये । उक्तविपर्ययसूत्रं कण्ठ्यं, किन्तु 'पुव्वण्हे अवरण्हे'त्ति दिनस्याद्यचरमप्रहरयोः 'पओसे पचूसे'त्ति रात्रेरिति । स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह-'चउव्विहे' त्यादि, लोकस्य-क्षेत्रलक्षणस्य स्थितिः-व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो वातो-घनवाततनुवातलक्षणः, उदधिः-घनोदधिः, पृथिवी-रत्नप्रभादिका, सा-द्वीन्द्रियादयस्ते पुनर्ये रत्नप्रभादिपृथ्वीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादिपृथिवीप्रतिष्ठितत्वात् पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनां चाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम् , अविवक्षा वेह विमानादिगतदेवादित्रसानामिति, स्थावरास्त्विह बादरवनस्पत्यादयो ग्राह्याः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात् , शेष सुगममिति । अनन्तरं त्रसाः प्राणा उक्ताः, अधुना त्रसप्रा
१ आषाढी इन्द्रमहः कार्तिकः सुप्रीष्मे बोद्धव्याः एते महामहाः खलु सर्वेषां यावत्प्रतिपदः ॥१॥ २ श्रुतज्ञानेऽभक्तिः लोकविरुद्धता प्रमत्तछलना च | विद्यासाधनवैगुण्यधर्मता इति मा कुरु ॥१॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org