SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं - स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोषाः- “ रागद्दो सुप्पत्ती सपक्खपरपक्खओ य अहिगरणं । बहुगुण इमोत्ति देसो सोउं गमणं च अनेसिं ॥ १ ॥” इति, तथा अतियानं - नगरादौ प्रवेशस्तत्कथा अतियानकथा, यथा – “सियेसिंधुरखंधगओ सियचमरो सेय छत्तछन्नणहो । जणणयणकिरणसेओ एसो पविसइ पुरे राया ॥ १ ॥” इति, एवं सर्वत्र, नवरं निर्याणं-निर्गमः, तत्कथा यथा - "वैजंत उज्जममंदबंदिसद्दं मिलतसामंतं । संखुद्धसेन्नमुद्धुयचिंधं नयरा निवो नियइ ॥ १ ॥” बलं - | हस्त्यादि वाहनं - वेगसरादि, तत्कथा यथा - " हे संत हयं गज्जंतमयगलं घणघणंतरहलक्खं । कस्सऽन्नस्सवि सेन्नं णिन्नासियस सिनं भो ! ॥ १ ॥ " कोशो - भाण्डागारं कोष्ठागारं - धान्यागारमिति, तत्कथा यथा - 'पुरिसपरंपरपत्तेण भरियविस्संभरेण कोसेणं । णिज्जियवेसमणेणं तेण समो को निवो अन्नो १ ॥ १ ॥” इति इह चैते दोषाः – “चारिय चोरा १ भिमरे २ हिय १ मारिय २ संक काउकामा वा । भुत्ताभुत्तोहाणे करेज्ज वा आससपओगं ॥ १ ॥” भुक्तभोगोऽभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः । आक्षिप्यते - मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते १ रागद्वेषोत्पत्तिः स्वपक्षपरपक्षाभ्यामधिकरणं च एष बहुगुणो देश इति श्रुत्वाऽन्येषां गमनं च ॥ १ ॥ २ सितसिन्धुरस्कन्धगतः सितचामरः सितच्छत्रच्छन्ननभाः जननयनकिरणश्वेत एष प्रविशति पुरे राजा ॥ १ ॥ ३ वाद्यमानायुधं अमंदबंदिशब्दं मीलत्सामन्तं संक्षुब्धसैन्यं उद्भूतचिह्नं नगरानृपो निर्गच्छति ॥ १ ॥ ६ हेषद्धयं गर्जद्वजं घनघनायमानस्थलक्षं कस्यान्यस्यापि सैन्यं निर्नाशितशत्रुसैन्यं भोः ! ॥ १ ॥ ४ पुरुषपरम्परया प्राप्तेन भृतसमग्रविश्वेन कोशागारेण । निर्जितवेश्रमणेन तेन समोऽन्यः को नृपः १ ॥ १ ॥ ५ चारिकचौराभिमरतया हृते मारिते शङ्का कर्त्तुकामा वा । भुक्ताभुक्तयोरवधावनं कुर्यादाशंसाप्रयोगं वा ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy