SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सत्राणि नेयानि, तथा आर्यभावः क्षायिकादिज्ञानादियुक्तः अनार्यभावः क्रोधादिमानेति । पुरुषजातप्रकरणमेव ह. ष्टान्तदान्तिकार्थोपेतमा विकथासूत्रादभिधीयते, पाठसिद्धं चैतत् , नवरं ऋषभा-बलीवः जातिः-गुणवन्मातृकत्वं कुल-गुणवपितृकत्वं बलं-भारवहनादिसामर्थ्य रूपं-शरीरसौन्दर्यमिति, पुरुषास्तु स्वयं भावयितव्याः, २, अनन्तरदृष्टान्तसूत्राणि तु सपुरुषदान्तिकानि जात्यादीनि चत्वारि पदानि भुवि विन्यस्य षण्णां द्विकसंयोगानां 'जाइसंपन्ने नो कुलसंपन्ने' इत्यादिना स्थानभङ्गकक्रमेण षडेव चतुर्भङ्गिकाः कृत्वा समवसेयानि । हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाह-“भद्रो मन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः । वनप्रचार १ सारूप्य २, सत्त्वभेदोपलक्षिताः ३ ॥१॥” इति, तत्र भद्रो हस्ती भद्र एव धीरत्वादिगुणयुक्तत्वात् , मन्दो मन्द एव धैर्यवेगा| दिगुणेषु मन्दत्वात् , मृगो मृग एव तनुत्वभीरुत्वादिना, सङ्कीर्णः किश्चिद् भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदार्टान्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमनःप्रभृतीनि च विन्यस्य “भद्दे नाम एगे भद्दमणे" इत्यादिना क्रमेण समवसेयानि, तत्र भद्रो भ। मं । मृ । सं जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः भ । म । मृ । सं . मन्दं मन्दस्येव वा मनो यस्य स तथा, 'नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतकामना विचित्रचित्त इत्यर्थः, पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति, भद्रादिलक्ष-12 णमिदम्-'महु'गाथा, मधुगुटिकेव-क्षौद्रवटिकेव पिङ्गले-पिङ्गे अक्षिणी-लोचने यस्य स तथा, अनुपूर्वेण-परिपाट्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy