________________
CASUS ROG ROSHE
नि ज्ञानादीनि यस्य सन्ति स केवलीति, सिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि। व्यपदिश्यते। असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्यं तावच्चतुःस्थानकावतारित्वादाह
चउहिं ठाणेहिं हासुप्पत्ती सिता तं०-पासित्ता भासेत्ता सुणेत्ता संभरेत्ता (सू० २६९) चउबिहे अंतरे पं० तं. -कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इथिए वा पुरिसस्स वा चउविहे अंतरे पं० २०-कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे (सू० २७०) चत्तारि भयगा पं० २०-दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते (सू० २७१) चत्तारि पुरिसजाता पं० सं०-संपागडपडिसेवी णामेगे णो पच्छन्नपडिसेवी पच्छन्नपडिसेवी णामेगे णो संपागडपडिसेवी एगे संपागडपडिसेवीवि पच्छन्नपडिसेवीवि एगे नो संपागडपडिसेवी णो
पच्छन्नपडिसेवी (सू० २७२) 'चउही'त्यादि, हसनं हासः-हासमोहोदयजनितो विकारस्तस्योत्पत्तिः-उत्पादः हासोत्पत्तिः 'पासित्त'त्ति दृष्ट्वा विदूषकादिचेष्टां चक्षुषा, तथा भाषित्वा वाचा किञ्चिच्चसूरिवचनं तथा श्रुत्वा श्रोत्रेण परोक्तं तथाविधवाक्यं तथा तथाविधमेव चेष्टावाक्यादिकं स्मृत्वा हसतीति शेषः, एवं दर्शनादीनि हासकरणानि भवन्तीति। असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्तदान्तिकार्थवत्सूत्रद्वयम्, 'चउब्विहे' इत्यादि, काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं-विशेषो रूपनिर्माणादिभिरिति काष्ठान्तरमेवं पक्ष्म-कर्पासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः लोहान्तरं अत्यन्तच्छेदकत्वादिभिः प्रस्तरान्तरं-पाषाणान्तरं चिन्तितार्थप्रापणादिभिरिति, 'एवमेव' काष्ठाद्यन्तरवत्, स्त्रिया वा स्यन्तरापेक्षया पुरुषस्य
RUSSES
Jan Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org