________________
स्मृतेः समन्वागत-समन्वाहारः, तदपि भवत्यार्तध्यानमिति चतुर्थ, द्वितीयं वल्लभधनादिविषयं चतुर्थ तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम् , चतुर्थ तु तत्र निदानमुक्तं, उक्तं च-“अमणुन्नाणं सद्दाइविसयवत्थूण दोसमइलस्स । (वस्तूनि-शब्दादिसाधनानि दोसोत्ति द्वेषः) धणियं वियोगचिंतणमसंपओगाणुसरणं च ॥१॥ तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तयसंपओगचिंता तप्पडियाराउलमणस्स ॥२॥ इहाणं विसयाईण वेयणाए य रागरत्तस्स । अविओगज्झवसाणं तह संजोगाभिलासो य ॥ ३ ॥ देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइ । अहम नियाणचिंतणमन्नाणाणुगयमचंतं ॥४॥” इति, आर्तध्यानलक्षणान्याह-लक्ष्यते-निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति लक्षणानि, तत्र क्रन्दनता-महता शब्देन विरवणं शोचनता-दीनता तेपनता-तिपेःक्षरणार्थत्वादश्रुविमोचनं परिदेवनता-पुनः पुनः क्लिष्टभाषणमिति, एतानि
चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि, यत आह-"तस्सकंदणसोयणपरिदेवणताडणाई लिंगाइं । इहाणिववियोगावियोगवियणानिमित्ताई ॥१॥” इति, निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च
१ शब्दादिविषयसाधनानामनोज्ञानां द्वेषमलिनस्य वियोगचिंतनं बाढं असंप्रयोगानुस्मरणं च ॥१॥ तथा शूलंशिरोरोगादिवेदनाया वियोगप्रणिधानं त| दसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः ॥२॥ इष्टानां विषयादीनामनुभवे रागरक्तस्यावियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥३॥ देवेन्द्रचक्रवर्तिस्वादिगुणद्धिप्रार्थनामयं । अधर्म निदानचिन्तनमज्ञानानुगतमत्यन्तम् ॥ ४॥ २ तस्याकंदनशोचनपरिदेवनताडनानि लिंगानि । इष्टानिष्टवियोगावियोमवेदनानिमित्तानि ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org