________________
A
RSASARAS
(सू० २३८) चत्तारि वत्था, पं० तं०-सुद्धे णाम एगे सुद्धे १ सुद्धे णामं एगे असुद्धे २ असुद्धे णामं एगे सुद्धे ३ असुद्धे णामं एगे असुद्धे ४, एवामेव चत्तारि पुरिसजाता पं० २०-सुद्धे णामं एगे सुद्धे चउभंगो ४, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता पं० तं०-सुद्धे णामं एगे सुद्धमणे चउभंगो ४, एवं संकप्पे जाव पर
कमे (सू० २३९) स्फुटं, परं प्रतिमा-भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नः-अभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनी पानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजायमित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः कथश्चित्सूत्रार्थयोर्वा, तथा अनुज्ञापनी अवग्रहस्य तथा पृष्टस्य केनाप्यर्थादेाकरणी-प्रतिपादनीति ॥ भाषाप्रस्तावाद्भाषाभेदानाह–चत्तारि |भासे'त्यादि, जातम्-उत्पत्तिधर्मकं तच्च व्यक्तिवस्तु, अतो भाषाया जातानि-व्यक्तिवस्तूनि भेदाः-प्रकाराः भाषाजातानि, तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेक-प्रथमं सूत्रक्रमापेक्षया भाष्यते सा तया वा भाषणं वा भाषा-काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः तस्या जातं-प्रकारो भाषाजातं अस्त्यात्मेत्यादिवत्, द्वितीयं | सूत्रक्रमादेव 'मोसं'ति प्राकृतत्वान्मृषा-अनृतं नास्त्यात्मेत्यादिवत्, तृतीयं सत्यमृषा-तदुभयस्वभावं आत्माऽस्त्यकर्तेत्यादिवत् , चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे-"सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा । तविवरीया मोसा मीसा जा तदुभयसहावा ॥१॥ अणहिगया जा तीसुवि सद्दो च्चिय
१ सत्या हिता सतामिह सन्तो मुनयो गुणाः पदार्था वा । तविपरीता मृषा मिश्रा सा या तदुभयखभावा ॥१॥ या तिसृष्वपि अनधिकृता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org