SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना गसूत्र. वृत्तिः ॥१७५॥ वर्णा लेश्या पीतवर्णेत्यर्थः पद्मलेश्या, शुक्ला प्रतीता, एवंकरणात्प्रथमसूत्रवत् । तओं' इत्याद्यभिलापेन शेषसूत्राण्यध्येया- ३ स्थाननीति, तत्र दुर्गति-नरकतिर्यग्रूपां गमयन्ति प्राणिनमिति दुर्गतिगामिन्यः, सुगतिः-मनुष्यदेवगतिरूपा, सक्लिष्टाः सङ्- काध्ययने क्लेशहेतुत्वादिति, विपर्ययः सर्वत्र सुज्ञानः, अमनोज्ञाः अमनोज्ञरसोपेतपुद्गलमयत्वात्, अविशुद्धा वर्णतः, अप्रशस्ताः- | उद्देशः४ अश्रेयस्योऽनादेया इत्यर्थः, शीतरूक्षाः स्पर्शतः आद्याः, द्वितीयास्तु स्निग्धोष्णाः स्पर्शत एवेति । अनन्तरं लेश्या उक्ता, लेश्यामरणे अधुना तद्विशेषितमरणनिरूपणायाह-'तिविहे' इत्यादि सूत्रचतुष्टयं, बालः-अज्ञस्तद्वद् यो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बाल:-असंयतस्तस्य मरणं बालमरणम् , एवमितरे, केवलं-पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफ- २२२ लेन फलवद्विज्ञानसंयुक्तत्वात् पण्डितो-बुद्धतत्त्वः संयत इत्यर्थः, तथा अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः-संयतासंयत इति, स्थिता-अवस्थिता अविशुध्यन्त्यसक्लिश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत्स्थितलेश्यः, सक्लिष्टा-सक्लिश्यमाना सक्लेशमागच्छन्तीत्यर्थः, सा लेश्या यस्मिंस्तत्तथा, तथा पर्यवाः-पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्ध्या वर्द्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति, अत्र प्रथमं कृष्णादि|लेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषूपद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येष-15 पद्यते तदा द्वितीयं, यदा पुनः कृष्णलेश्यादिः सन् नीलकापोतलेश्येषूपद्यते तदा तृतीयम् , उक्तं चान्त्यद्वयसंवादि ॥१७५॥ भगवत्याम् यदुत-"'से णूणं भंते ! कण्हलेसे नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेसु नेरइएसु उववज्जइ?, हंता, १ अथ नूनं भदन्त ! कृष्णलेश्यो नीललेश्यो यावच्छुक्ललेझ्यो भूत्वा कापोतलेश्येषु नैरयिकेघूत्पद्यते an Education intora For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy