SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ कल्पा, ईषदूनता चेह न विवक्ष्यते, अतः परिपूर्णेत्यर्थः परिपूर्णप्राया वेति, पृथिवी-भूः, 'अहे'त्ति अधो धनवातःतथाविधपरिणामो वातविशेषो 'गुप्येत' व्याकुलो भवेत् क्षुभ्येदित्यर्थः ततः स गुप्तः सन् धनोदधिं-तथाविधपरिणामजलसमूहलक्षणमेजयेत्-कम्पयेत् , 'तए णं'ति ततोऽनन्तरं स धनोदधिरेजित:-कम्पितः सम् केवलकल्पां पृथिवीं चालयेत् , सा च चलेदिति, देवो वा ऋद्धि-परिवारादिरूपां द्युतिं शरीरादेः यश:-पराक्रमकृतां ख्याति बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार-साभिमानं व्यवसायं निष्पन्नफलं तमेव पराक्रममिति, बलवीर्याधुपदर्शनं हि पृथिव्यादिच लनं विना न भवतीति तदर्शयंस्तां चलयेदिति, देवाश्च-वैमानिका असुराः-भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्याम्-"किं पत्तियण्णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा! तेसि णं देवाणं भवपच्चइए वेराणुबंधे"त्ति, ततश्च सङ्ग्रामः स्यात् , तत्र वर्तमाने पृथिवी चलेतू , तत्र तेषां महाव्यायामत उत्सातनिपातसम्भवादिति 'इच्चेएही'त्यादि, निगमनमिति । देवासुराः सङ्ग्रामकारितयाऽनन्तरमुक्ताः, ते च दशविधाः 'इन्द्रसामानिकत्रायस्त्रिंशपार्षद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकश' (तत्त्वा० अ०४ सू०४) इति वचनात्, इति तन्मध्यवर्तिनः त्रिस्थानकावतारित्वात् किल्बिषिकानभिधातुमाह तिविधा देवकिब्बिसिया पं० सं०-तिपलिओवमद्वितीता १ तिसामरोवमट्टितीता २ तेरससागरोवमद्वितीया ३, कहि णं भंते ! तिपलितोवमहितीता देवकिब्बिसिया परिवसंति ?, उप्पिं जोइसियाणं हिहिं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलिओवमद्वितीया देखा किब्बिसिया परिवसंति १, कहि णं भंते ! तिसागरोवमद्वितीता देवा किब्बिसिया परिवसंति ?, Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy