________________
'तओ सेहे 'त्यादि सुगमं, किन्तु 'सेहे 'ति 'षिधू संराद्धा' विति वचनात् सेध्यते - निष्पाद्यते यः स सेधः शिक्षां वाऽधीत इति शैक्षः तस्य भूमयो - महाव्रतारोपणकाललक्षणाः अवस्थापदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः - उत्कृष्टतः षद्भिर्मासैरुत्थाप्यते न तानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैर्गृहीत शिक्षत्वादिति, उक्तं च" सेहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा । राईदिसत्त चउमासिगा य छम्मासिआ चेव ॥ १ ॥” इति, आसु चायं व्यवहारोको विभागः- “ पुग्वोवडपुराणे करणजयट्ठा जहन्निया भूमी । उक्कोसा दुम्मेहं पडुच्च अस्सहाणं च ॥ १ ॥ एमेव य मज्झिमगा अणहिज्जेते असद्दहंते य । भावियमेहाविस्सवि, करणजयट्ठा य मज्झिमगा ॥ २ ॥” इति ॥ शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भूमिनिरूपणायाह – “तओ थेरे" इत्यादि कण्ठ्यं, नवरं स्थविरो-वृद्धस्तस्य भूमयः - पदव्यः स्थविरभूमय इति, जातिः - जन्म श्रुतम् - आगमः पर्यायः - प्रव्रज्या तैः स्थविरा - वृद्धा ये ते तथोक्ता इति इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति, एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्तं व्यवहारे - “आहारे उवही सेज्जा, संथारे खेत्तसंक मे ।
१ शैक्षस्य तिस्रो भूमयो जघन्या तथा मध्यमा चोत्कृष्टा । रात्रिंदिवसप्तकं चतुर्मासिका षाण्मासिका चैव ॥ १ ॥ २ पूर्वोपस्थे पुराणे करणजयार्थं जघन्या भूमिः । उत्कृष्टा दुर्मेधसं प्रतीत्याश्रद्दधानं च ॥ १ ॥ एवमेव च मध्यमा अनधीयाने चाश्रद्दधाने च । भावितमेधाविनोऽपि करणजयार्थं च मध्यमा । ३ आहारे उपधौ शय्यायां संस्तारे क्षेत्रसंक्रमे ।
१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org