SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या-लोक्यते-अवलोक्यते केवलावलोकेनेति लोको, नामस्थापने इन्द्रसूत्रवत्, द्रव्यलोकोऽपि तथैव, नवरं ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्तं च-"जीवमजीवे रूवमरूवी सपएसअप्पएसे य । जाणाहि दबलोयं णिच्चमणिचं च जं दव्वं ॥ १॥” इति, भावलोकं त्रिधाऽऽह–'तिविहे'इत्यादि, भावलोको द्विविधः-आगमतो नोआगमतश्च, तत्रागमतो लोकपर्यालोचनोपयोगः तदुपयोगानन्यत्वात् पुरुषो वा, नोआगमतस्तु सूत्रोक्तो ज्ञानादिः, नोशब्दस्य मिश्रवचनत्वाद्, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षं नागम एव | केवलो नाप्यनागम इति, तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य क्षायिकक्षायोपशमिकभावरूपत्वात् , | क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, उक्तं च-“ओदइय उवसमिए य खइए य तहा खओवसमिए य । परिणाम सन्निवाए य छविहो भावलोगो उ ॥१॥"त्ति, एवं दर्शनचारित्रलोकावपीति ॥ अथ क्षेत्रलोकं त्रिधाऽऽह'तिविहे' इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानि यावज्योतिश्चक्रस्योपरितलस्तावत् तिर्यग्लोकस्ततः परत ऊर्द्धभागस्थितत्वात् ऊर्द्वलोको देशोनसप्त १ जीवा अजीवा रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाश्च । जानीहि द्रव्यलोकं नियम नियं च यद्रव्यं ॥१॥ २ औदयिक औपशमिकः क्षायिकः क्षायोपश| मिकक्ष । तथा परिणामः सन्निपातश्च षड्विधो भावलोक इति ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy