________________
श्रीस्थानागसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः१ सू० १५२
॥१२५॥
लक्षाणि, समयः कालः तत्सत्तोपलक्षित क्षेत्रं समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद्-अल्पो योजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भारः-पुद्गलनिचयो यस्याः-सेषत्प्राग्भाराऽष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महापाग्भाराः, अशीत्यादिसहस्राधिकयोजनलक्षवाहल्यत्वात् , तथाहि-"पदमाऽसीइसहस्सा बत्तीसा अट्टवीस वीसा य। अहार सोलस य अह सहस्स लक्खोवरिं कुज्जा ॥१॥” इति, विष्कम्भस्तु तासां क्रमेणैकाद्याः सप्तान्ता रज्जव इति, अथवेषप्राग्भारा मनागवनतत्वादिति ॥ प्रकृत्या-स्वभावेनोदकरसेन युक्ता इति, क्रमेण चैते द्वितीयतृतीयान्तिमाः। प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचराः अन्ये त्वल्पजलचरा इति, उक्तं च-"लवणे उदगरसेसु य महोरया मच्छकच्छहा भणिया । अप्पा सेसेसु भवे न य ते णिम्मच्छया भणिया ॥१॥" अन्यच्च-"लवणे कालसमुद्दे सयंभुरमणे य होंति मच्छा उ । अवसेस समुद्देसुं न हुंति मच्छा न मयरा वा ॥२॥ नस्थित्ति पउरभावं पडुच्च न उ सबमच्छपडिसेहो । अप्पा सेसेसु भवे नय ते निम्मच्छया भणिया ॥३॥” इति ॥ क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते तानाह
तओ लोगे णिस्सीला णिव्वता णिग्गुणा निम्मेरा णिप्पञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववजंति, तं०-रायाणो मंडलीया जे य महारंभा कोडंबी । तओ लोए सुसीला
१ प्रथमाऽशीतिः सहस्राणि द्वात्रिंशदष्टाविंशतिविंशतिश्चाष्टादश षोडश चाष्ट सहस्राणि लक्षोपरि कुर्यात् ॥१॥ २ लवणे उदकरसेषु च महोरगा मत्स्यकमाच्छपा भणिताः । अल्पाच शेषेषु भवेयुर्न च ते निमत्स्यका भणिताः ॥१॥ ३ लवणे कालसमुद्रे खयंभूरमणे च भवंति मत्स्याः । अवशेषसमुद्रेषु न भवंति
मत्स्या वा मकरा वा ॥१॥ न सन्तीति प्रचुरभावं प्रतील नैव सर्वथा मत्स्यप्रतिषेधः । अल्पाः शेषेषु भवेयु व ते निर्मत्स्यकाः भणिताः॥१॥
॥१२५॥
JainEducation international
For Personal & Private Use Only
www.jainelibrary.org