________________
श्रीस्थानागसूत्रवृत्तिः
॥११३॥
पुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च "पत्तो
३ स्थानवर्ग' इत्यादिवाच्ये पत्तोवा इत्यादिकं प्राकृतलक्षणवशादुक्तं, 'समाणे' इत्यत्रापि च 'सामाणे' इति ॥ अथ पुरुषप्रस्ता- काध्ययने वात् पुरुषान् सप्तसूच्या निरूपयन्नाह–'तओ' इत्यादि कण्ठ्यं, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरु- उद्देशः १ षप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽत्रेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भाष्य
मासू० १२८ गाथा-"आगमओऽणुवउत्तो इयरो दव्वपुरिसो तिहा तइओ । एगभवियाइ तिविहो मूलुत्तरनिम्मिओ वावि ॥१॥" मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येवेति, भावपुरुषभेदाः पुनर्ज्ञानपुर|पादयः । ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः एवमितरावपि । वेदः पुरुषवेदः तदनुभवनप्रधानः पुरुषो वेदपुरुषः, स |च स्त्रीपुंनपुंसकसम्बन्धिषु विष्वपि लिङ्गेषु भवतीति, तथा पुरुषचिह्नः-श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषो, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चियते पुरुष इतिकृत्वेति, पुरुषवेषधारी वा स्यादिरिति, अभिलप्यतेऽनेनेति अभिलापः-शब्दः स एव पुरुषः पुंल्लिङ्गतया अभिधानात् यथा घटः कुटो वेति, आह च-"अभिलावो पुंलिंगाभिहाणमेत्तं घडो व चिंधे उ । पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा ॥२॥ वेयपुरिसो तिलिंगोऽवि पुरिसो वेदाणुभूइकालम्मि" ॥ इति, 'धम्मपुरिसत्ति-धर्मः क्षायिकचारित्रादिस्तदर्जनपराः पुरुषाः धर्मपुरुषाः, उक्तं च१ आगमतोऽनुपयुक्त नोआगमतो द्रव्यपुरुषस्त्रिधा तृतीयः । एकभविकादिस्त्रिविधः मूलोत्तरनिर्मितो वाऽपि ( योग्यानि द्रव्याणि आकारवन्ति वा) ॥१॥
॥११३॥ अभिलापः पुंलिझाभिधानमात्रं घट इव चिढे तु । पुरुषाकृतिर्नपुंसको वेदो वा पुरुषवेषो वा ॥ २॥ वेदपुरुषस्त्रिलिंगोऽपि पुरुषवेदानुभूतिकाले।
Jain Education International
For Personal & Private Use Only
Mond.jainelibrary.org