SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ तिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं । ततो दंडा पं० तं०—मणदंडे वयदंडे काय - . दंडे, नेरइयाणं तओ दंडा पण्णत्ता, तं०—मणदंडे वइदंडे कायदंडे, विगलिंदियवज्जं जाव वेमाणियाणं ( सू० १२६ ) 'ओ' इत्यादि कण्ठ्यं, नवरं गोपनं गुप्तिः - मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानां च निवर्त्तनमिति, आह च - "मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेऊहिं । पवियारेयररूवा णिद्दिट्ठाओ जओ भणियं ॥ १ ॥ समिओ णियमा गुत्तो गुत्तो समियत्तणंमि भइयव्वो । कुसलवइमुईरंतो जं वइगुत्तोऽवि समिओऽवि ॥ २ ॥” इति एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानां, न तु नारकादीनामित्यत आह- 'संजयमणुस्साण' मित्यादि, कण्ठ्यम् ॥ उक्ता गुप्तयस्तद्विपर्ययभूता अथागुप्तीराह - 'तओ' इत्यादि कण्ठ्यं, विशेषतश्चतुर्विंशतिदण्डके एता अति| दिशन्नाह - 'एव' मित्यादि, 'एव' मिति सामान्यसूत्रवन्नारकादीनां तिस्रोऽगुप्तयो वाच्याः, शेषं कण्ठ्यं, नवरमिहैकेन्द्रियविकलेन्द्रिया नोक्ताः, वाङ्मनसोस्तेषां यथायोगमसम्भवात्, संयतमनुष्या अपि नोक्ताः, तेषां गुप्तिप्रतिपादनादिति ॥ अगुप्तयश्चात्मनः परेषां च दण्डनानि भवन्तीति दण्डान्निरूपयन्नाह-'तओ दण्डे' त्यादि, कण्ठ्यं, नवरं मनसा दण्डनमात्मनः परेषां चेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डो मन एव दण्डो मनोदण्ड इति, एवमितरावपि विशेषचिन्तायां चतुर्विंशतिदण्डके 'नेरइयाणं तओ दंडा' इत्यादि यावद्वैमानिकानामिति सूत्रं वाच्यं, नवरं 'विगलिंदियवज्जं 'ति १ मनोगुत्यादिका गुप्तयस्तिस्रः समयकेतुभिः प्रविचारेतररूपा निर्दिष्टा यतो भणितं ॥ १ ॥ समितो नियमाद् गुप्तो गुप्तः समितत्वे भक्तव्यः कुशलवाचमुदीरयन् यद्वाग्गुप्तोऽपि समितोऽपि ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy