________________
दूतानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह-'तिहीं'त्यादि प्राग्वत् , नवरं अशुभदीर्घायुष्टायै
इति नारकायुष्कायेति भावः, तथाहि-अशुभं च तत्सापप्रकृतिरूपत्वात् दीर्घ च तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घ, तदेवंभूतमायु:-जीवितं यस्मात्कर्मणस्तदशुभदीर्घायुस्तद्भावस्तत्ता तस्यै तया वेति, प्राणान्-प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता भवति तथा श्रमणमशनादिना हीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलना तु जात्यायुद्घट्टनतो निन्दनं मनसा खिंसनं जनसमक्षं गर्हणं है तत्समक्षं अपमाननमनभ्युत्थानादिभिः, 'अन्यतरेण' बहूनां मध्ये एकतरेण, क्वचित्त्वन्यतरेणेति न दृश्यते, 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद, आर्यच-1 न्दनाया इव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवते महावीराय पञ्चदिनोनपाण्मासिकक्षपणपारणके दत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरौ सम्पन्नौ केशाः पूर्ववदेव जाताः पञ्चवर्णविविधरत्नराशिमिर्गृहं भृतं सेन्द्रदेवदानवनरनायकैरभिनन्दिता कालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति, इह च सूत्रेऽशनादि प्रासुकापासुकत्वादिना न विशेषितं, हीलनादिकर्तुःप्रासुकादिविशेषणस्य फलविशेषं प्रत्यकारणत्वात् , मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति । प्राणातिपातमृषावादयोनि विशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेनरकायुः, यदाह-"मिच्छादिट्ठी महारंभपरिग्गहो तिब्व
१ मिथ्यादृष्टिमहारंभपरिग्रहस्तीव
ASSASSISSA SISUS
Jain Education International
For Personal & Private Use Only
www.janelibrary.org