________________
GROOMSANGALRSSSSS
तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कक-| लाससादीनां रक्तत्वफणादिकरणलक्षणेति । एवं द्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा अवगाढास्तेष्वेव ये वर्तन्ते तेऽवसेयाः, विभूषापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति । तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यमिति, तथाहि-उभयेषामुपादानाद् भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनं च, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणं, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषां चानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति ॥ अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाह'तिविहे'त्यादि, कण्ठ्यम् , नवरं 'कती'त्यनेन सङ्ख्यावाचिना ध्यादयः सङ्ख्यावन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावाचकतया रूढोऽपीह सबथामात्रे द्रष्टव्यः, तत्र नारकाः कति-कतिसङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः-कत्युत्पत्तिसाधाद् बुद्ध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति-न सायाता इत्यकति-असहयाता| अनन्ता वा, तत्र ये अकति-अकतिसङ्ख्याताः असङ्ख्याता एकैकसमये उत्पन्ना सन्तस्तथैव सञ्चितास्ते अकतिसञ्चिताः, तथा यः परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः स चैक इति तत्सञ्चिता अवक्तव्यकसञ्चिताः, समये समये एकतयोत्सन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्ख्येयान्ताः, उक्तं च-"एगो व दो व |तिन्नि व संखमसंखा व एगसमएणं । उववजंतेवइया उबटुंता वि एमेव ॥१॥” इति, एतद्देवपरिमाणमेतदेव नार
१ एको वा द्वौ वा त्रयो वा सङ्ख्याता असङ्ख्या वैकसमयेन उत्पद्यन्ते एतावन्तः उद्वर्त्तन्तेऽप्येवमेव (देवाः) ॥१॥
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org