________________
दिति विशेषिव्यं भवति, पररूपेणेत्यर्थः, स तु न सन्त्येवेति मन्यते, तथा च तत्प्रतिषेधकवचनस्याप्यभावः प्रसजतीति, अथवा शशविषाणादयो न सन्तीत्येतत्कथञ्चिदिति विशेषणीयं, यतस्ते शशमस्तकादिसमवेततयैव न सन्ति, न तु शशश्च विषाणं च शशस्य वा विषाणं शृङ्गिपूर्वभवग्रहणापेक्षया शशविषाणं तद्रूपतयाऽपि (वा) न सन्तीति, तदेवं सदसतोः कथञ्चिदित्येतस्य विशेषणस्यानभ्युपगमात् तस्य ज्ञानमप्ययथार्थत्वेन कुत्सितत्वादज्ञानमेव, आह च-"जह दुब्बयणमवयणं कुच्छियसीलं असीलमसतीए । भण्णइ तह णाणंपि हु मिच्छद्दिहिस्स अन्नाणं ॥ १॥” इति, तथा मिथ्यादृष्टेरध्यवसायो न ज्ञानं, भवहेतुत्वात्, मिथ्यात्वादिवत् , तथा यदृच्छोपलब्धेरुन्मत्तवत्, तथा ज्ञानफलस्य सस्क्रियालक्षणस्याभावात् अन्धस्य स्वहस्तगतदीपप्रकाशवदिति, आह च-"सदसदविसेसणाओ भवहेउजइच्छिओवलंभाओ । णाणफलाभावाओ मिच्छादिहिस्स अन्नाणं ॥१॥” इति ८, 'उवओगि'त्ति, सागारोवउत्ते चेव अणगारोवउत्ते चेव त्ति सहाकारेण-विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारो, ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ताः, अनाकारस्तु तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च-"जं सामन्नग्गहणं भावाणं नेय कटु आगारं। अविसेसिऊण अत्थे दसणमिति वुच्चए समए ॥१॥"त्ति, तेनोपयुक्ता अनाकारोपयुक्ता इति ९, आहारे'त्ति, आहारका
१ यथा दुर्वचनमवचनं कुत्सितं शीलमशीलं असत्याः । भण्यते यथा तथा ज्ञानमपि मिथ्यादृष्टेरज्ञानमेव ॥१॥ २ सदसदविशेषणाद्भवहेतुतो यादृच्छिकोपलंभात् । शानफलाभावाच मिथ्यादृष्टेरज्ञानं ॥१॥ ३ यत्सामान्यग्रहणं पदार्थानां नैवाकारं कृत्वाऽविशिष्यार्थान् दर्शनमित्युच्यते | | समये ॥१॥
Jain Education Internatinal
For Personal & Private Use Only
www.jainelibrary.org