________________
गृहीतत्वादिति, इह त्वभेदनयाश्रयणाजीवाइ येत्याधुक्तम्, इह च समयावलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् द्विस्थानकावतारो दृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति, 'आणापाणू इत्यादि, 'आनप्राणा विति-उच्छासनिःश्वासकालः सङ्ख्यातावलिकाप्रमाणाः, आह च-"हहस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे
ऊसासनीसासे, एस पाणुत्ति वुच्चई ॥१॥" तथा स्तोकाः सप्तोच्छासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्त* स्तोकप्रमाणा लवाः, 'एवं'मिति यथा प्राक्तने सूत्रत्रये जीवा इति च अजीवा इति च प्रोच्यते इत्यधीतमेवं सर्वेषूत्तरसूत्रे-17 |वित्यर्थः, मुहूर्ताः-सप्तसप्ततिलवप्रमाणाः, उक्तञ्च-"सत्तं पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए॥१॥तिण्णि सहस्सा सत्त य सयाणि तेवत्तरिच ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अणंतनाणीहिं
२॥” इति, अहोरात्राः त्रिंशन्मुहर्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानि ऋतुत्रयमानानि, संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणि, वर्षशतादीनि प्रतीतानि, पूर्वाङ्गानि चतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानम्-"पुवस्स उ परिमाणं सारं खलु होति कोडिलक्खाओ। छप्पन्नं च सहस्सा बोद्धब्बा वासकोडीणं ॥१॥” इति, ७०५६००००००
१ हृष्टस्यानवग्लानस्य निरुपकृष्टस्य जन्तोः एक उच्छ्वासनिःच्छ्वासः एष प्राण इति उच्यते ॥ १॥ २ सप्त प्राणाः स स्तोकः सप्त स्तोकाः लवः सप्तसप्तत्या ४ालवैः एष मुहूर्त इति व्याख्यातः॥१॥ त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्चोच्छ्वासा एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥२॥ ३ पूर्वस्य तु
परिमाणं सप्ततिः खलु भवन्ति कोटीलक्षाः । षट्पंचाशत्कोटीसहस्राणि च वर्षाणां बोव्यानि ॥ १॥
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org