________________
श्रीस्थानाजासूत्रवृत्तिः
॥८६॥
वाति या पवुच्चति ४७ । छाताति वा आतवाति वा दोसिणाति वा अंधगाराति वा ओमाणाति वा उम्माणाति वा अतिता
२ स्थानणगिहाति वा उज्जाणगिहाति वा अवलिंबाति वा सणिप्पवाताति वा जीवाति या अजीवाति या पवुच्चइ । दो रासी पं०
काध्ययने तं-जीवरासी चेव अजीवरासी चेव (सूत्रं ९५)
उद्देशः४ एषां चानन्तरसूत्रेणायमभिसम्बन्धः-पूर्वत्र जीवविशेषाणामुच्चत्वलक्षणो धर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिस्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनोच्यत इति, तत्र सर्वेषा कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिभेदायुदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद् बहुवचनमित्याह–'समयाइ वा' इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ख्यातसमयसमुदयात्मिका आवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता इति, तत्र समया इति वा आवलिका इति वा यत्कालवस्तु तदविगानेन जीवा इति च, जीवपर्यायत्वात्, पर्यायपर्यायिणोश्च कथञ्चिदभेदात् , तथा अजीवानां-पुद्गलादीनां पर्यायत्वादजीवा इति च, चकारौ समुच्चयाओं, दीर्घता च प्राकृतत्वात् , प्रोच्यते-अभिधीयत इति, न जीवादिव्यतिरेकिणः समयादयः, तथाहि-जीवाजीवानां सादिसपर्यवसानादिभेदा या स्थितिस्तद्भेदाः समयादयः सा च तद्धर्मो धर्मश्च धर्मिणो नात्यन्तं भेदवान् , अत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात् , तदन्येभ्योऽपि तस्य भेदाविशेषाद् , दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसरविवरान्तरतः किमपि शुक्लं पश्यति तदा फिमियं प-14॥८६॥ ताका किंवा बलाकेत्येवं प्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुसत्तिरेव, गुणग्रहणत एव तस्यापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org