SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 'जंबू' इत्यादि कंठ्यं, नवरं, वज्रमय्याः अष्टयोजनोच्छ्रायायाश्चतुर्द्वादशोपर्यधोविस्तृताया जम्बूद्वीपनगरप्राकार कल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुः शतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवर वेदिकेत्यर्थः, पञ्चधनुः शतविस्तीर्णा गवाक्ष हेम किङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवतीति ॥ जम्बूद्वीपवक्तव्यतानन्तरं तदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह - 'लवणे ण' मित्यादि कण्ठ्यम्, नवरम्, चक्रवालस्य - मण्डलस्य विष्कम्भः - पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिकासूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति । क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां 'धायइ संडे दीवे' इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाह- कण्ठ्यश्चायम्, नवरं धातकीखण्डप्रकरणमपि जम्बूद्वीपलवणसमुद्रमध्यं वलयाकृतिं धातकीखण्डमालिख्य हिमवदा दिवर्षधरान् जम्बूद्वीपानुसारेणैवोभयतः पूर्वापरविभागेन भरत हैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलय विष्कम्भमध्ये मेरुं च कल्पयित्वाऽवबोद्धव्यम् । अनेनैव च क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति । तत्र धातकीनां - वृक्षविशेषाणां खण्डो वनसमूह इत्यर्थो धातकीखण्डस्तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्डश्वासौ द्वीपश्चेति धातकीखण्डद्वीपस्तस्य 'पुरच्छिमंति पौरस्त्यं पूर्वमित्यर्थो यदर्द्ध-विभागस्तद्धातकीखण्डद्वीपपौरस्त्यार्द्ध, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति, उक्तं च – “पंचसय जोयणुच्चा सहस्समेगं च होंति विच्छिन्ना । कालोययलवणजले १ पंचशतयोजनोचौ सहस्रमेकं च भवतो विस्तीर्णौ । कालोदकलवणजले Jain Educationonal For Personal & Private Use Only jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy