SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ग्रहः, सर्वतः सहस्रपरिमाणौ रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, 'तत्थ'त्ति तयोनवृत्तवैताढ्ययोः क्रमेण स्वातिप्रभासौ देवौ वसतः, तद्भवनभावादिति । एवं हरिवर्षे गन्धापाती रम्यग्वर्षे माल्यवत् पर्यायो देवौ च क्रमेणैवेति ॥ 'जंबू' इत्यादि 'पुव्वावरे पासे'त्ति, पार्श्वशब्दस्य प्रत्येक सम्बन्धात् पूर्वपार्वेऽपरपाचे च, किंभूते?–एत्थ'त्ति प्रज्ञापकेनोपदयमाने क्रमेण सौमनसविद्युत्भौ प्रज्ञप्तौ, किम्भूतो?-अश्वस्कन्धसदृशावादी निम्नौ पर्यवसान उन्नतौ, यतो निषधसमीपे चतुःशतोच्छ्रितौ मेरुसमीपे तु पञ्चशतोच्छ्रिताविति, आह च-"वासहरगिरितणं रुंदा पंचेव जोयणसयाई । चत्तारिसउम्विद्धा ओगाढा जोयणाण सयं ॥१॥ पंचसए उव्विद्धा ओगाढा पंच गाउयसयाई । अंगुलअसंखभागो विच्छिन्ना मंदरतेणं ॥२॥ वैक्खारपव्वयाणं आयामो तीस जोयणसहस्सा । दोन्नि य सया णवहिया छच्च कलाओ चउण्हं पि ॥ ३॥" त्ति, 'अवडचंद'त्ति अपकृष्टमर्द्ध चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानम्-आकारो गजदन्ताकृतिरित्यर्थः, तेन संस्थितावपार्द्धचन्द्रसंस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थिताविति क्वचिसाठः, तत्र अर्द्धशब्देन विभागमात्रं विवक्ष्यते, नतु समप्रविभागतेति, ताभ्यां चार्द्धचन्द्राकारा देवकुरवः कृता, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतो वक्षारपर्वताविति । 'जंबू' इत्यादि तथैव, नवरं अपरपाचे गन्धमादनः पूर्वपार्श्वे माल्यवानिति । 'दो दीहवेयड्ढ'त्ति, वृत्तवैताठ्यव्यवच्छेदार्थ दीर्घग्रहणं, वैताब्यौ विजयाब्यौ वेति संस्कारः, तौ च भरतैरा १ वर्षधरगिर्यन्ते विस्तृताः पंचैव योजनशतानि चतुःशतोचाः योजनानां शतमवगाढाः॥१॥२ पंचशतोद्वेधाः पंचशतगव्यूतावगाढाः । अंगुलासंख्यभागविस्तीर्णा मन्दरसमीपे. ॥२॥ ३ वक्षस्कारपर्वतानामायामस्त्रिंशद्योजनसहस्राणि द्वे शते नवाधिके षट्च कलाः चतुर्णामपि ॥ ३ ॥ SAMAHANSAERARIAS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy