SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ समोहन्नइ २ चाउरंगिणिं सेणं विउब्वइ २ चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगामं संगामेई”त्यादि ९, समुद्घातो मारणान्तिकादिः १०, कालसंयोगः - कालकृतावस्था ११, आयातिः - गर्भान्निर्गमो १२, मरणं - प्राणत्यागः १३, 'दोहं छविपव्वत्ति द्वयानां - उभयेषां 'छवि'त्ति मतुब्लोपाच्छविमन्ति-त्वग्वन्ति 'पव्य'त्ति पर्वाणि सन्धिबन्धनानि छविपर्वाणि क्वचित् 'छवियत्त' ति पाठः तत्र छवियोगाच्छविः स एव छविकः स चासौ 'अत्त'त्ति आत्मा च शरीरं छविकात्मेति, 'छविपत्त' त्ति पाठान्तरे छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् १४, 'दो सुकेत्यादि, द्वयोः शुक्र - रेतः शोणितम् - आर्त्तवं ताभ्यां सम्भवो येषां ते तथा १५, 'कायद्विति'त्ति कार्य-निकाये पृथिव्यादिसामान्यरू| पेण स्थितिः कायस्थितिः असङ्ख्योत्सर्पिण्यादिका, भवे भवरूपा वा स्थितिः भवस्थितिर्भवकाल इत्यर्थः १६, 'दोन्ह' ति द्वयानामुभयेषामित्यर्थः, कार्यस्थितिः सप्ताष्टभवग्रहणरूपा, पृथिव्यादीनामपि साऽस्ति न चानेन तद्व्यवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति १७, 'दोन्हे 'त्यादि, देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनानुत्पत्तेरिति १८, 'दुविहे' इत्यादि अद्धा - कालः तत्प्रधानमायुः कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थो, यथा मनुव्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमात्रं कालमुत्कर्षतोऽनुवर्त्तत इति, तथा भवप्रधानमायुर्भवायुः, यद्भवात्यये अपगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, १९, 'दोह' मित्यादि सूत्रद्वयं भावितार्थमेव | २१, 'दुविहे कम्मे' इत्यादि, प्रदेशा एव- पुद्गला एव यस्य वेद्यन्ते न यथा बद्धो रसस्तत्प्रदेशमात्रतया वेद्यं कर्म प्रदेशकर्म, यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्मानुभावकर्मेति २२, 'दो' इत्यादि, यथाबद्धमायुर्यथायुः पाल Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy