________________
२२ समवायाध्य.
श्रीसमवा- महत्वकृतश्चैषां विशेषोऽथवा दंशो-दंशनं भक्षणमित्यर्थः, तत्प्रधाना मशका दंशमशकाः, एते च यूकामत्कुणमत्को
यांगे टकमक्षिकादीनामुपलक्षणमिति ५ तथा चेलानां-वस्त्राणां बहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभावः अचेश्रीअभय०
लत्वमित्यर्थः ६ अरतिः मानसो विकारः ७ स्त्री प्रतीता ८ 'चर्या' ग्रामादिष्वनियतविहारित्वं ९ 'नषेधिकी' सोपद्रवृचिः
वेतरा च खाध्यायभूमिः १० शय्या' मनोज्ञामनोज्ञवसतिः संस्तारको वा ११ 'आक्रोशो' दुर्वचनं १२ 'वधो| ॥४१॥ यष्टयादिताडनं १३ ‘याचना' भिक्षणं तथाविधे प्रयोजने मार्गणं वा १४ अलाभरोगौ प्रतीतौ १६ तृणस्पर्शः संस्तारका
भावे तृणेषु शयानस्य १७ 'जलः' शरीरवस्त्रादिमलः १८ सत्कारपुरस्कारौ च वस्त्रादिपूजनाभ्युत्थानादिसंपादनेन सत्कारेण वा पुरस्करणं-सन्माननं सत्कारपुरस्कारः १९ ज्ञानं-सामान्येन मत्यादि क्वचिदज्ञानमिति श्रूयते २० दर्शनंसम्यग्दर्शनं, सहनं चास्य क्रियादिवादिनां विचित्रमतश्रवणेऽपि निश्चलचित्ततया धारणं २१ 'प्रज्ञा' खयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति २२। 'दृष्टिवादो' द्वादशाङ्गः, स च पञ्चधा-परिकर्म १ सूत्र २ पूर्वगत ३ प्रथमानु-10 योग ४ चूलिका ५ भेदात् , तत्र दृष्टिवादस्य द्वितीये प्रस्थान द्वाविंशतिः सूत्राणि, तत्र सर्व द्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, 'छिन्नच्छेयणइयाईति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नछेदनयः यथा 'धम्मो मंगलमुक्कट्ठ'मित्यादि
ला श्लोकः सूत्रार्थतः छेदनयस्थितो न द्वितीयादिश्लोकानपेक्षते, इत्येवं यानि सूत्राणि छिन्नछेदनयवन्ति तानि छिन्नछेदननायिकानि, तानि च खसमया-जिनमताश्रिता या सूत्राणां परिपाटि:-पद्धतिस्तस्यां स्खसमयपरिपाट्यां भवन्ति तया
॥४१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org