________________
श्रीसमवायांगे श्री अभय०
वृत्तिः
॥ ३४ ॥
यावज्जीवस्य मृतत्वादिति, तथा 'आयंतियमरणे'त्ति आत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तद्द्रव्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, 'वलायमरणे'त्ति संयमयोगेभ्यो वलतां - भग्नत्रतपरिणतीना व्रतिनां मरणं वलन्मरणं तथा वशेन-इन्द्रियविषयपारतन्त्र्येण ऋता - वाधिता वशार्त्ताः स्त्रिग्धदीपकलिकावलोकनात् शलभवत् तथाऽन्तः - मध्ये मनसीत्यर्थः शल्यमिव शल्यमपराधपदं यस्य सोऽन्तः शल्यो – लज्जाभिमानादिभिरनालोचिताती चारस्तस्य मरणम् अन्तःशल्यमरणं, तथा यस्मिन् भवे - तिर्यगूमनुष्यभवलक्षणे वर्त्तते जन्तुस्तद्भव योग्यमेवायुर्बद्धा पुनः तत्क्षयेण म्रियमाणस्य यद्भवति तत्तद्भ वमरणं, एतच तिर्यगमनुष्याणामेव न देवनारकाणां तेषां तेष्वेवोत्पादाभावादिति, तथा बाला इव बालाः - अविर - तास्तेषां मरणं बालमरण, तथा पण्डिताः - सर्वविरतास्तेषां मरणं पण्डितमरणम्, बालपण्डिताः – देशविरतास्तेषां मरणं बालपण्डितमरणं, तथा उद्मस्थमरणम् - अकेवलिमरणं, केवलिमरणं तु प्रतीतं, 'वेहासमरणं' ति विहायसि - न्योमनि भवं वैहायसं विहायो भवत्वं च तस्य वृक्षशाखाद्युद्धद्धत्वे सति भावात्, तथा गृद्धेः- पक्षिविशेषैरुपलक्षणत्वाच्छकुनि काशिवादिभिश्च स्पृष्टं - स्पर्शनं यस्मिंस्तद्गुत्रस्पृष्टम् अथवा गृभ्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्र तद्गुभ्रपृष्ठम्, इदं च करिकर भादिशरीर मध्यपातादिना गृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवति, तथा भक्तस्य - भोजनस्य यावजीवं प्रत्याख्यानं यस्मिंस्तत्तथा इदं च त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिज्ञेति
Jain Education International
For Personal & Private Use Only
१७ समवायाध्य.
1138 11
www.jainelibrary.org