SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा- यांगे १५ समवायाध्य. श्रीअभय वृत्तिः BR ॥३०॥ POSALA545454555 प्रतिपदं-प्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभागं पञ्चदशभागेनेति वीप्सायां द्विवचनादि यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या-दीप्तिस्तत्कारणत्वात् |मण्डलं लेश्या तामावृत्य-आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह-'तद्यथे' त्यादि 'पढमाई' त्ति प्रथमायां तिथ्यां प्रथमं भागं पञ्चदशांशलक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् 'पन्नरसेसु'त्ति पञ्चदशसु दिनेषु पञ्चदशं पञ्चदशभागमावृत्य तिष्ठति, 'तं चेव'त्ति तमेव पञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन २-पञ्चदशभागतः खयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति, इह चायं भावार्थः-पोडश|भागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान राहुः प्रतिदिनमेकैकं भागं कृष्णपक्षे आवृणोति शुक्लपक्षे तु विमुञ्चतीति, उक्तं च ज्योतिष्करण्डके-'सोलसभागे काऊण उडुबई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवहई जोण्हा ॥१॥' इति, ननु चन्द्रविमानस्य पञ्चैकपष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशैर्दिनैश्चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिस्ररश्मिजालेन तस्यावरणान्न दोष इति, तथा षड् नक्षत्राणि SAS POSTORA ॥३०॥ १ षोडश भागान् कृत्वोडपतिहीयतेऽत्र पञ्चदश । तावन्मात्रान् भागान् पुनरपि परिवर्धते ज्योत्स्ना ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy