________________
तानपेक्षः शोकाभि(दि)भव इति भावः ८ तथा मानप्रत्ययो-जात्यादिमदहेतुकः९तथा मित्रद्वेषप्रत्ययः-मातापित्रादीनामल्पेऽप्यपराधे महादण्डनिवर्त्तनमिति भावः १० मायाप्रत्ययो मायानिबन्धनः ११ एवं लोभप्रत्ययोऽपि १२ ऐाप-13 थिकः केवलयोगप्रत्ययः कर्मबन्धः-उपशान्तमोहादीनां सातवेदनीयबन्धः १३॥ तथा 'विमाणपत्थड'त्ति विमानप्रस्तटा उत्तराधर्यव्यवस्थिताः, तथा 'सोहम्मवडिंसए'त्ति सौधर्मस्य देवलोकस्यार्द्धचन्द्राकारस्य पूर्वापरायतस्य दक्षिणोत्तरविस्तीर्णस्य मध्यभागे त्रयोदशप्रस्तटे शक्रावासभूतं विमानं सौधर्मावतंसकं सौधर्मदेवलोकस्यावतंसकः-शेखरकः स इवप्रधानत्वात् इत्येवं यथार्थनामकमिति, णंकारो वाक्यालङ्कारे, अर्द्ध त्रयोदशं येषु तान्यर्द्धत्रयोदशानि तानि च तानि योजनशतसहस्राणि चेति विग्रहः सार्द्धानि द्वादशेत्यर्थः, तथाऽर्द्धत्रयोदशानि जाती-जलचरपञ्चेन्द्रियतिर्यग्गतौ कुलकोटीनां योनिप्रमुखानि-उत्पत्तिस्थानप्रभवानि यानि शतसहस्राणि तानि तथोच्यन्त इति, तथा 'पाणाउस्स'त्ति यत्र प्राणिनामायुर्विधान सभेदमभिधीयते तत्प्राणायुादशं पूर्व तस्य त्रयोदश वस्तूनि-अध्ययनवद्विभागविशेषाः, तथा गर्भ-गर्भाशये व्युत्क्रान्तिः-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेति विग्रहः, प्रयोजन-मनोवाकायानां व्यापारणं प्रयोगः स त्रयोदशविधः, पञ्चदशानां प्रयोगाणां मध्ये आहारकाहारकमिश्रलक्षणकायप्रयोगद्वयस्य तिरश्चामभावात् , तौ हि संयमिनामेव स्तः, संयमश्च संयतमनुष्याणामेव न तिरश्चामिति, तत्र सत्यासत्योभयानुभयखभावाश्चत्वारो मनःप्रयोगाः वाक्प्रयोगाश्चेति अष्टौ पुनरौदारिकादयः पञ्च कायप्रयोगाः एवं त्र
Jain Education MA
nal
For Personal & Private Use Only
Alainelibrary.org