________________
ALSANDSAMACROSAMEEDO
प्पहा मेयवसापूयरहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुन्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दरहियासा' इति तत्र नित्यं-सर्वदा अन्धकार-अन्धत्वकारकं बहलबलाहकपटलाच्छादितगगनमण्डलामावास्थार्द्धरात्रान्धकारवत्तमः-तमिस्रं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसःतमिस्रा नित्यान्धकारतमसः, जात्यन्धमेद्यान्धकारामावास्यानिशीथतुल्या इत्यर्थः, कथमित्यत आह–व्यपगता-अविद्यमाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां-ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा-दीपाद्यग्नेः प्रभाप्रकाशो येषु ते तथा, 'पह'त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषां यच्चिक्खिलं-कर्दमस्तेन लिप्त-उपदिग्धमनुलेपनेन सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं-भूमिका येषां ते मेदोवसापूयरु|घिरमांसचिक्खिल्ललिप्सानुलेपनतलाः, यद्यपि च तत्र मेदःप्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, अशुचयो विश्राः-आमगन्धयः पूतिगन्धय इत्यर्थः, अत एव परमदुरभिगन्धाः 'काऊअगणिवण्णाभत्ति कृष्णाग्निर्लोहादीनां ध्मायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव दुःखेन-कृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते 8 दुरधिसह्याः, अत एवाशुभा नरका अशुभा नरकेषु वेदना इति एवं सत्तवि भाणिय'त्ति प्रथमाममुञ्चता सप्त इत्युक्तं, 'जं जासु जुजई'त्ति यच्च यस्यां पृथिव्यां बाहलयस्य नरकाणां च परिमाणं युज्यते स्थानान्तरोक्तानुसारेण तच्च तस्यां
Jain Education
a
l
For Personal & Private Use Only
A
nelibrary.org