________________
योगः, तथा चाह-से किं तं मूलपढमाणुओगे' इत्यादि सूत्रसिद्धं यावत् ‘सेत्तं मूलपढमाणुओगे', 'से किं तमित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते तासामनुयोगः-अर्थकथनविधिः गण्डिकानुयोगः, तथा चाह-'गंडियाणुओगे अणेगे'त्यादि, तत्र कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्माद्यभिधीयत इति, एवं शेषाखपि अभिधानवशतो भावनीयं, यावत् चित्रान्तरगण्डिकाः, नवरं दशार्हाः-समुद्रविजया-18 दयो दश वसुदेवान्ताः तथा चित्रा-अनेकार्था अन्तरे-ऋषभाजिततीर्थकरान्तरे गण्डिका-एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाश्च चित्रान्तरगण्डिकाः, एतदुक्तं भवति-ऋषभाजिततीर्थकरान्तरे तद्वंशजभूपतीनां शेषगतिगमनव्युदासेन शिवगमनानुत्तरोपपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति, ताश्च 'चोदसलक्खा सिद्धा निवईणेको य होइ सबढे । एवेकेकट्ठाणे पुरिसजुगा हुंति संखेजे ॥१॥' त्यादिना ग्रन्थेन नन्दिटीकाया
मभिहितास्तत एवावधार्याः, इह सूत्रगमनिकामात्रस्य विवक्षितत्वादिति, शेषं सूत्रसिद्धमानिगमनात् , नवरं 'संखेजा । वत्थु'त्ति पञ्चविंशत्युत्तरे द्वे शते 'संखेजा चूलवत्थुत्ति चतुस्त्रिंशत् ॥ १२॥ साम्प्रतं द्वादशाङ्गे विराधनानिष्पन्नं
कालिकं फलमुपदर्शयन्नाहइच्चेइयं दुगालसंग गणिपिडगं अतीतकाले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियटिंसु इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पण्णे काले परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियटृति इच्चेइयं दुवालसंग गणिपिडगं
COCCASSACREASONICALCCAX
dan Education Inter
For Personal & Private Use Only
wwwjainelibrary.org