________________
सर्वनयदृष्टय एवेहाख्यायन्त इत्यर्थः, तथा चाह-'दिट्ठिवाए णमित्यादि, दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणाऽऽख्यायते, ‘से समासओ पंचविहे' इत्यादि सर्वमिदं प्रायो व्यवच्छिन्नं तथापि यथादृष्टं किमपि लिख्यते, तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकाणि गणितपरिकर्मवत्, तच्च परिकर्मश्रुतं सिद्धश्रेणिकादिपरिकर्म-18 मूलभेदतः सप्तविधं, उत्तरभेदतस्तु त्र्यशीतिविधं मातृकापदादि, एतच सर्व समूलोत्तरभेदं सूत्रार्थतो व्यवच्छिन्नं, एतेषां च परिकर्मणां षट् आदिमानि परिकाणि खसामयिकान्येव, गोशालकप्रवर्त्तिताजीविकपाखण्डिकसिद्धातमतेन पुनः च्युताच्युतश्रेणिकापरिकर्मसहितानि सप्त प्रज्ञाप्यन्ते, इदानीं परिकर्मसु नयचिन्ता, तत्र नैगमो द्विविधः-साङ्घाहिकोऽसाङ्घाहिकश्च, तत्र साझाहिकः सङ्ग्रहं प्रविष्टोऽसाझाहिकश्च व्यवहारं, तस्मात्सङ्ग्रहो व्यवहार ऋजुसूत्रः शब्दादयश्चैक एवेत्येवं चत्वारो नयाः, एतैश्चतुर्भिर्नयैः षट् खसामयिकानि परिकर्माणि चिन्त्यन्ते, अतो भणितं 'छ चउक्कनयाईति भवन्ति, त एव चाजीविकास्त्रैराशिका भणिताः, कस्माद् ?, उच्यते, यस्मात्ते सर्व व्यात्मकं इच्छन्ति, यथा जीवोऽजीवो जीवाजीवः लोकोऽलोको लोकालोकः सत् असत् सदसत् इत्येवमादि, नयचिन्तायामपि ते त्रिविधं नयमिच्छन्ति, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकः उभयार्थिकः, अतो भणितं 'सत्त तेरासिय'त्ति सप्त परिकर्माणि त्रैराशिकपाखण्डिकास्त्रिविधया नयचिन्तया चिन्तयन्तीत्यर्थः, 'सेत्तं परिकम्मे'त्ति निगमनं, 'से किं तं सुत्ताई'मित्यादि, तत्र सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि अष्टाशीत्यपि च सूत्रार्थतो व्यवच्छिन्नानि
SCAPACER
Jain Education
For Personal & Private Use Only
Mainelibrary.org