________________
सिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः - ओजआहारादिराभोगिकानाभोगिकखरूपोऽनेकधा उच्छ्वासोऽनुसमयादिकालभेदेनानेकधा लेश्या कृष्णादिका पोढा आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका आयतप्रमाणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भबाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि उपपात एकसमयेनैतावतामेतावता वा कालव्यव - धानेनोत्पत्तिः च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणं, अवगाहना - शरीरप्रमाणमङ्गुलासंख्येयभागादि अवधिः - अङ्गुला संख्येयभागक्षेत्रविषयादि वेदना - शुभाशुभस्वभावा विधानानि - भेदा यथा सप्तविधा नारका इत्यादि उपयोगः - आभिनिवोधिकादिर्द्वादशविधः योगः - पञ्चदशविधः इन्द्रियाणि पञ्च द्रव्यादिभेदाद् विंशतिर्वा श्रोत्रादिच्छिद्राद्यपेक्षयाऽष्टौ वा कषायाः - क्रोधादयः आहारश्वोच्छ्वासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनिः सचित्तादिकं जीवानामुत्पत्तिस्थानं, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्च मन्दरादीनां महीधराणामिति, तत्र विष्कम्भो - विस्तार उत्सेधः - उच्चत्वं परिरयः - परिधिः विधि - विशेषा इति विधयो-भेदा यथा मन्दरा जम्बूद्वीपीय धातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तु जम्बूद्वी|पको लक्षोचः शेषास्तु पञ्चाशीतिसहस्रोच्छ्रिता इति एवमन्येष्वपि भावनीयं, तथा कुलकरतीर्थकरगणधराणां तथा समस्त भरताधिपानां चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां
Jain Educationonal
For Personal & Private Use Only
ainelibrary.org