SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ # HASARLI SAYA स्रष्वतिक्रान्तेषु समुद्रतटप्रदेशेषु उद्वेधसहस्रस्थापि परिहानिर्भवतीत्यर्थः, समभूतलत्वं भवतीति, तथा समुद्रमध्यभागापेक्षया तत्तटस्य साहसिक उत्सेधो भवति, उत्सेधश्वोच्चत्वं, तत्र समधरणीतलरूपात्तत्तटात्पञ्चनवतिं प्रदेशानतिक्रम्य एकप्रदेशिका उत्सेधस्य परिहानिर्भवति, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा प्रादेशिक्येवोत्सेधहानिर्भवति, एवं पञ्चनवतिपञ्चनवतिप्रदेशातिक्रमेण प्रादेशिक्यां प्रादेशिक्यां उत्सेधहान्यां पञ्चनवत्यां योजनसहस्रेष्वतिक्रान्तेषु स| मुद्रमध्यभागे सहस्रमपि उत्सेधस्य परिहीयते, एवं साहसिकोत्सेधपरिहानौ साहनिकोद्वेधता भवति 'लवणस्से-12 ति, अथवोद्वेधार्थ योत्सेधपरिहानिस्तस्यां च पञ्चनवतिः प्रदेशाः-प्रज्ञप्तास्तेष्वतिलचितेषु उत्सेधतः प्रदेशपरिहान्यामु-है। द्वेधः प्रादेशिको भवतीति, तथा कुन्थुनाथस्य-सप्तदशतीर्थकरस्य कुमारत्वमाण्डलिकत्वचक्रवर्तित्वानगारत्वेषु प्रत्येकं । त्रयोविंशतेर्वर्षसहस्राणामर्द्धाष्टमवर्षशतानां च भावात्सर्वायुः पञ्चनवतिवर्षसहस्राणि भवन्तीति, तथा मौर्यपुत्रो-महावीरस्य सप्तमगणधरस्तस्य पञ्चनवतिर्वर्षाणि सर्वायुः, कथं ?, गृहस्थत्वछद्मस्थत्वकेवलित्वेषु क्रमेण पञ्चषष्टिचतुर्दशषोडशानां वर्षाणां भावादिति ॥ ९५ ॥ एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स छण्णउई छणउई गामकोडीओ होत्था, वायुकुमाराणं छण्णउइ भवणावाससयसहस्सा प०, ववहारिए णं दंडे छण्णउइ अङ्गुलाई अंगुलमाणेणं, एवं धणू नालिया जुगे अक्खे मुसलेवि हु, अभितरओ आइमुहुत्ते छण्णउइअंगुलछाए प०॥ सूत्रं ९६ ॥ Jain Educatio n al For Personal & Private Use Only
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy