________________
योगचूलिकाभेदेन पञ्चप्रकारस्य 'सुत्ताईति द्वितीयप्रकारभूतानि अष्टाशीतिभवन्ति 'जहा नंदीए'त्ति अतिदेशतः सूत्राणि दर्शितानि तानि चाग्रे व्याख्यास्यामः, 'मंदरस्से'सादि, मेरोः पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनस-| हस्रमानात् जम्बूद्वीपान्ताच द्विचत्वारिंशद्योजनसहस्रेषु गोस्तुभस्य व्यवस्थितत्वात् तस्य च सहस्रविष्कम्भत्वाद् यथोक्तः सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभासशंखदकसीमाख्यान वेलन्धरनागराजनिवासपर्वतानाश्रित्य वाच्यमत एवाह-एवं चउसुवि दिसासु नेयत्व'मिति । 'बाहिराओ ण'मित्यादि, बायायाः सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः क्वचित् 'बाहिराओ'त्ति न दृश्यते सूर्यः प्रथमं पण्मासं दक्षिणायनलक्षणं दक्षिणायनादित्वात् संवत्सरस्य 'अयमाणे'त्ति आयान्-आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभा
गान् , 'दिवसखेत्तस्स'त्ति दिवसस्यैव 'निवुड्ढेत्त'त्ति निवळ हापयित्वा 'रयणिखेत्तस्स'त्ति रजन्यास्तु अभिवळ है। 'सूरिए चारं चरइ'त्ति भ्राम्यतीति, इह च भावनैवं-प्रतिमण्डलं दिनस्य मुहूर्तेकषष्टिभागद्वयहानेर्दक्षिणायनापेक्षया
चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तु त एव वर्द्धन्त इति, द्विः सूर्यग्रहणं चेह दिनरात्र्याश्रितवाक्यद्वयभेदकल्पनया ततोन पुनरुक्तमवसेयं, इदं च सूत्रमष्टसप्ततिस्थानकसूत्रवद्भावनीयमिति, 'दक्षिणकट्ठाओ' इति आदिसूत्रं पूर्वसूत्रवदवगन्तव्यं नवरमिह दिनवृद्धिः रात्रिहानिश्च भावनीयेति ॥८८॥
उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए सुसमदूसमाए पच्छिमे भागे एगूषणउए अद्धमासेहिं सेसेहिं कालगए
UNCA-NCCESSAMRACCRACKSONG
Jain Education
For Personal & Private Use Only
Le rayon