________________
७९ समवाया.
श्रीसमवा
यांगे श्रीअभय वृत्तिः
॥८७॥
वर्द्धयति इह तु दिनभागान् वर्द्धयति रात्रिभागाश्च हापयति ॥७८ ॥ वलयामुहस्स णं पायालस्स हिहिलाओ चरमंताओ इमीसे णं रयणप्पभाए पुढवीए हेहिले चरमंते एस णं एगूणासिं जोयणसहस्साई अबाहाए अंतरे प०, एवं केउस्सवि जूयस्सवि ईसरस्सवि, छट्ठीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेट्ठिले चरमंते एस णं एगूणासीति जोयणसहस्साई अबाहाए अन्तरे प०, जम्बुद्दीवस्स णं दीवस्स बारस्स य बारस्स य एस णं एगूणासीइं जोयणसहस्साई साइरेगाइं अबाहाए अंतरे प० ॥ सूत्रं ॥ ७९ ॥
अथैकोनाशीतितमे स्थानके किञ्चिल्लिख्यते, तत्र 'वलयामुहस्स'त्ति वडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य 'पायालस्स'त्ति महापातालकलशस्याधस्तनचरमान्ताद्रनप्रभापृथ्वीचरमान्त एकोनाशीत्या(तौ)सहस्रेषु भवति, कथं ? रत्नप्रभा हि अशीतिसहस्राधिकं योजनानां लक्षं बाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तच्चरमान्तात् पृथिवीचरमान्तो यथोक्तान्तरमेव भवति, एवमन्येऽपि त्रयो वाच्या इति, 'छट्ठीए' इत्यादि, अस्य भावार्थ:-पष्टपृथिवी हि बाहल्यतो योजनानां लक्षं षोडश सहस्राणि च भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येकं विंशतिसहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठ्यामसावेकविंशतिः संभाव्यते, तदेवं षष्ठपृथिवीबाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयं, यतस्तद्वाहल्य
JainEducation
For Personal & Private Use Only
Mainelibrary.org