________________
Jain Education Int
लोकस्याधोवर्त्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारखतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गईतोयानां तुषितानां च देवानामुभयपरिवार संख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति, तथैकैको मुहूर्त्तः सप्तसप्ततिर्लवान् लवाग्रेण - लवपरिमाणेन प्रज्ञप्तः, कथं ?, उच्यते, 'हटुस्स अनवगलस्स, निरुवकिटुस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुचई ॥ १ ॥ सत पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए, | एस मुहुत्ते वियाहिए ॥ २ ॥' त्ति, [ हृष्टस्यानवग्लानस्य निरुपक्लिष्टस्य जन्तोः | एक उच्छ्वासनिःश्वास एष प्राण इति उच्यते ॥ १ ॥ सप्त प्राणास्ते स्तोकः सप्त स्तोकास्ते लवः । लवानां सप्तसप्तत्या एष मुहूर्त्तो व्याख्यातः ॥ २ ॥ ] ॥७७॥ सक्कस्स णं देविंदस्स देवरन्नो वेसमणे महाराया अट्ठहत्तरीए सुवन्नकुमारदीव कुमारावाससय सहस्साणं आहेवचं पोरवचं सामित्तं भट्टित्तं महारायत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहरइ, थेरे णं अकंपिए अट्ठहत्तरं वासाईं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ एगूणचत्तालीसइमे मंडले अट्टहत्तारं एगसट्टिभाए दिवसखेत्तस्स निबुड्ढेत्ता रयणिखेत्तस्स अभिनिवुत्ता णं चारं चरइ, एवं दक्खिणायणनियद्वेवि ॥ सूत्रं ७८ ॥
अथाष्टसप्ततिस्थान के किञ्चित् लिख्यते, 'सक्कस्से' त्यादि, 'वेसमणे महाराय'त्ति सोमयमवरुणवैश्रमणाभिधानानां लोकपालानां चतुर्थ उत्तरदिक्पालः, स हि वैश्रमणदेवनिकायिकानां सुपर्णकुमारदेवदेवीनां द्वीपकुमारदेवदेवीनां व्यन्तरव्यन्तरीणां चाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते, 'अष्टसप्तत्याः सुवर्णकु
For Personal & Private Use Only
elibrary.org