________________
श्रीसमवायांगे
श्रीअभय० वृत्तिः
॥ ७१ ॥
गहणे णूमे कक्के कुरुए दंभे ३० कूडे जिम्हे किब्बिसे अणायरणया गूहणया वंचणया पलिकुंचणया सातिजोगे लोभे इच्छा ४० मुच्छा कंखा गेही तिण्हा भिजा अभिजा कामासा भोगासा जीवियासा मरणासा ५० नन्दी रागे ५२, गोथूभस्स णं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स पञ्चच्छिमिले चरमंते एस णं बावन्नं जोयणसहस्साइं अबाहाए अंतरे प०, एवं दगभासस्स णं केउगस्स संखस्स जूयगस्स दगसीमस्स ईसरस्स, नाणावरणिजस्स नामस्स अंतरायस्स एतेसिणं तिण्डं कम्मपगडीणं बावन्नं उत्तरपयडीओ प०, सोहम्मसणंकुमारमाहिंदेसु तिसु कप्पेसु बावन्नं विमाणवाससयसहस्सा प० ॥ सूत्रं ५२ अथ द्विपञ्चाशत्स्थानकं, तत्र 'मोहणिज्जस्स कम्मस्स'त्ति इह मोहनीय कर्मणोऽवयवेषु चतुर्षु क्रोधादिकषायेषु मो| हनीयत्वमुपचर्यावयवे समुदायोपचारन्यायेन मोहनीयस्येत्युक्तं, तत्रापि कषायसमुदायापेक्षया द्विपञ्चाशन्नामधेयानि न पुनरेकैकस्य कषायमात्रस्यैवेति, तत्र क्रोध इत्यादीनि दश नामानि क्रोधकषायस्य 'चंडिक्के' त्ति चाण्डिक्यं, तथा मानादीन्येकादश मानकषायस्य 'अतुकोसे'त्ति आत्मोत्कर्षः 'अवक्कोसे' त्ति अपकर्षः 'उन्नए'त्ति उन्नतः पाठान्तरेण 'उन्नामे' त्ति उन्नामः, तथा मायादीनि सप्तदश मायाकषायस्य 'णूमे 'ति न्यवमं 'कक्के' त्ति कल्कं 'कुरुए'त्ति कुरुकं 'जिम्हे' त्ति जैां, तथा लोभादीनि चतुर्दश लोभकषायस्य 'भिजा अभिज'त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदान्नामद्वयमिति, 'गोथूभे'त्यादि गोस्तुभस्य प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालकलशस्य पाश्चा
Jain Education International
For Personal & Private Use Only
५१-५२समवायाध्य.
॥ ७१ ॥
www.jainelibrary.org