________________
5
श्रीसमवा
यांगे श्रीअभय वृतिः
।
४२ समवायाध्य.
॥६७॥
धेरपसृत्य गोस्तूभस्यावासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्यचरमान्तः-चरमविभागो यावताऽन्तरेण भवति 'एस गंति एतदन्तरं द्विचत्वारिंशद्योजनसहस्राणि प्रज्ञप्तं, अन्तरशब्देन विशेषोऽप्यभिधीयते इत्यत आह'अबाहाए'त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः । 'कालोए णन्ति धातकीखण्डपरिवेष्टके कालोदाभिधाने समुद्रे । 'गइनामे'त्यादि, गतिनाम यदुदयान्नारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिर्भवति, शरीरनाम यदुदयादौदारिकादिशरीरं करोति, यदुदयादङ्गानां-शिरःप्रभृतीनां उपाङ्गानां च-अङ्गुल्यादीनां विभागो भवति तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलानां पूर्वबद्धानां बध्यमानानां च सम्बन्धकारणं शरीरबन्धननाम, तथा औदारिकादिशरीरपुद्गलानां गृहीतानां यदुदयाच्छरीररचना भवति तच्छरीरसङ्घातनाम, तथाऽस्मां यतस्तथाविधशक्तिनिमित्तभूतो रचनाविशेषो भवति तत्संहनननाम, संस्थानं समचतुरस्रादिलक्षणं यतो भवति तत्संस्थाननाम, तथा यदुदयावर्णादिविशेषवन्ति शरीराणि भवन्ति तद्वर्णादिनाम, तथा यदुदयादगुरुलघुत्वं स्वशरीरस्य जीवानां भवति तद-1 गुरुलघुनाम, तथा यतोऽङ्गावयवः प्रतिजिबिकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽङ्गावयव एव | विषात्मको दंष्ट्रात्वगादि परेषामुपपातको भवति तत्पराघातनाम. तथा यदुदयादन्तरालगतौ जीवो याति तदानुपूर्वीनाम, तथा यदुदयादुच्छासनिःश्वासनिष्पत्तिर्भवति तदुच्छासनाम, तथा यदुदयाजीवस्तापवच्छरीरो भवति तदातप-1 नाम, यथाऽऽदित्यबिम्बपृथिवीकायिकानां, तथा यतोऽनुष्णोद्योतवच्छरीरो भवति तदुद्योतनाम, तथा यतः शुभे
-%-15RAMMARCH
dain Education in
For Personal & Private Use Only
m.jainelibrary.org