SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांगे ३३ समवायाध्य. श्रीअभय वृत्तिः ॥५९॥ शब्देन बहुधा भाषमाणस्य २० व्याहृतेन मस्तकेन वन्दे इति वक्तव्ये किं भणसीति ब्रुवाणस्य २१ प्रेरयति रात्रिके |कस्त्वं प्रेरणायामिति वदतः २२ आर्य! ग्लानं किं न प्रतिचरसीत्याधुक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः २३ धर्म कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः २४ कथयति गुरौ न स्मरसीति वदतः २५ धर्मकथामाच्छिन्दतः २६ भिक्षावेला वर्तते इत्यादिवचनतः पर्षदं भिन्दानस्य २७ गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थिताया धर्म कथयतः २८ गुरोः संस्तारकं पादेन घट्टयतः २९ गुरुसंस्तारके निषीदतः ३० उच्चासने निषीदतः ३१ समासनेऽप्येवं ३२ त्रयस्त्रिंशत्तमा सूत्रोक्तैव, रानिकस्यालपतस्तत्रगत एव-आसनादिस्थित एव प्रतिशृणोति, आगत्य है |हि प्रत्युत्तरं देयमिति शैक्षस्याशातनेति ३३ । 'तेत्तीसं तेत्तीसं भोम'त्ति भौमानि-नगराकाराणि, विशिष्टस्थानानीत्यन्ये, तथा 'जया णं सुरिए' इत्यादि, इह सूर्यस्य मण्डलयोरन्तरे द्वे द्वे योजनेऽष्टचत्वारिंशच्चैकषष्टिभागाः, एतद्द्विगुणं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागाः, एतावता हीनविष्कम्भं सर्ववाद्यमण्डलाद्वितीयं मण्डलं भवति, ततश्च वृत्तक्षेत्रपरिधिगणितन्यायेन परिधितः सप्तदशभिर्याजनैरष्टत्रिंशता चैकषष्टिभागैय॑नं द्वितीयमण्डलं सर्वबाबमण्डलाद्भवति, एवं तृतीयमण्डले एतद्विगुणेन हीनं भवति, तथाहि-तद्विष्कम्भस्तत एकादशभिर्योजनैनवभिश्चैकपष्टिभागैःप-1 यन्तिमाद्धीनं भवति, परिधितस्तु पञ्चत्रिंशता योजनैः पञ्चदशभिश्चैकपष्टिभागैय॑नं भवति, तच त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्युत्तरे षट्चत्वारिंशच्चैकषष्टिभागा इति, तथा अन्तिममण्डलान्मण्डले मण्डले द्वाभ्यां ॥ ५९॥ Jain Education For Personal & Private Use Only Kijainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy